________________
सम्यक्त्वकौमुद
द्वितीय प्रस्तावः
॥४४॥
EXXXXXXXXXXXXXXXXXXX
व्रतस्य स्थिरतामेवं विज्ञाय वसुधापतेः । आकार्य नगरीलोकमवोचन सचिवादयः ॥ ३१४ ॥. रुधिरामिषदानेन यदि कस्यापि देहिनः । विधीयते बलिदेव्यै नृपेण विधिपूर्वकम् ॥ ३१५ ॥ तदानीं स्थिरतामेति पूर्वद्वारप्रतोलिका । नैवेद्यादिककर्माणि जायन्ते त्वन्यथा वृथा ॥ ३१६ ॥ न करोति स्वयं राजा परं नैवानुमन्यते । कदाग्रहगृहीतात्मा प्राणिहिंसां कदाचन ॥ ३१७ ॥ यत्राहं नगरं तत्र जल्पन्निति दृढाग्रहः । स्कन्धावारपदे नव्यं पुरं कतु समीहते ॥ ३१८ ।। युग्मम् ॥ इति विज्ञाय युष्माभिः सर्वकार्यधुरंधरैः। विज्ञप्यं भृभुजे युक्त्या यद्युक्तं तद्विधीयताम् ॥ ३१॥ तेऽपि विज्ञप्तिमातेनुः प्रणिपत्य महीपतिम् । एकजन्तुवधः स्वामिन् बहथै विदुषां मतः ॥ ३२ ॥ यतःत्यजेदेकं कुलस्यार्थे ग्रामस्याथे कुलं त्यजेत् । ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ॥१॥ यद्यस्ति भवतो जीवहिंसाविरतिमद्भुतम् । तदा वयं करिष्यामः सर्वमेतत्पुरः कृते ॥३२१ ॥ राज्ञोचे प्रजया यत्तु विधीयते शुभाशुभम् । षष्ठांशेन नरेशेन प्राप्यते तदसंशयम् ॥ ३२२ ॥ यतः
यथैव पुण्यस्य सुकर्मभाजां षष्टांशभागी नृपतिः सुवृत्तः।
तथैव पापादिकुकर्म भाजां षष्ठांशभागी नृपतिः कुवृत्तः ॥१॥ भूयोऽपि प्रजया प्रोचे पापभागोऽखिलोऽपि नः । केवलं भवतः पुण्यभागो भवतु भूपते ! ॥ ३२३ ॥
KXXXXXXXXXXXXXXXXXXXXXXXX
॥४४॥