________________
सम्यक्त्व
कौमुदी
॥४३॥
*******
अथाभाषिष्ट तानेष कृपापीयूषपूरितः । नगरेण गरेणेव कार्य नास्त्यमुना मम ॥ ३०४ ॥ यत्कृते क्रियते प्राणिहिंसा दुर्गतिदायिनी । किं तेन कनकेन स्याद्येन कर्णच्छिदा भवेत् ॥ ३०५ ॥ एकजीववधोद्भूतात् पातकात् श्रभ्रपातकात् । हेमकोटिप्रदानेऽपि न शुद्धिर्जायते नृणाम् ॥ ३०६ ॥ यतः - मेरुगिरिकण दाणं धन्नाणं देइ कोडिरासीओ। इक्कं वह जीवं न छुट्टए तेण पावेणं ॥ १ ॥ यत्राहं विहितावासः सर्ववर्णसमन्त्रितः । जायते नगरं तत्र विचित्रावासमण्डितम् ॥ ३०७ ॥
अन्योऽपि मतिमान् यस्तु स्वात्मनो हितमीहते । कायेन मनसा वाचा कार्य तेनाङ्गिपालनम् ॥ ३०८ ॥ यतःन कर्तव्या स्वयं हिंसा प्रवृत्तां तां निवारयेत् । जीवितं बलभारोग्यं शश्वद्वाच्छन् महीपतिः ॥१॥ हिंसा विधीयमाना चेत् कल्पते शर्मकर्मणे । तदा विपरसास्वादो दद्याज्जीवितसंपदम् ॥ ३०६ ॥ यतः - सकमलवनमग्नेर्वासरं भास्वदस्तादमृतमुरगवत्क्त्राज्जीवितं कालकूटात् । रुपगममजीर्णात्साधुवादं विवादादभिलषति वधाद्यः प्राणिनां सौख्यमिच्छेत् ॥ १ ॥ कृपाधर्मानुभावेन भवेयुर्नियतं नृणाम् | आरोग्यरूपसौभाग्यबलैश्वर्यादिसंपदः ॥ ३१० ॥ जीव हिंसाविरत्याख्यं यद्वतं गुरुसाक्षिकम् । अङ्गीचक्रे मया द्विविधत्रिविधात्मकम् ॥ ३११ ॥ प्राणान्तेऽपि न कुर्वेऽहं खण्डनं तस्य कर्हिचित् । व्रतभङ्गो ददात्येव घोरां नरकयातनाम् ॥ ३१२ ॥ नीचा इव गरीयांसो यद्यापदि निजं व्रतम् । विमुञ्चन्ति तदा तेषां को विशेषो भवेत्स्फुटम् १ || ३१३ ॥
****
****
द्वितीय
प्रस्तावः
॥ ४३ ॥