________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव
॥४२॥
KXXXXXXXXXXXXXXXXXXXXXXXXX
ततस्तद्गृहसर्वस्वमादायो:दिवस्पतिः। आनन्दयन् जनपदं स्वपुरोपान्तमागमत् ॥ २६० ॥ सप्राभृतः पुरीलोकैः सहर्षेः सन्मुखागतः । संगतः कुरुते यावत् स प्रवेशं निजे पुरे ।। २६१॥ दुस्तटीव झटित्येव तावद्वप्रप्रतोलिका । अकस्मादेव सर्वाऽपि पपातोत्पातसूचिनी ॥ २६२ ॥ तां निरीक्ष्य तथाभूतां विहगाभावशङ्कितः । बहिरेव नराधीशस्तद्दिनं स्थितवान् पुरः ॥२६३॥ तत्क्षणादेव भूपालस्तां नवीनामकारयत । स्वर्गिणां मनसेव स्याद्राज्ञां वाचा यदीप्सितम् ॥ २६४॥ पुनः प्रवेशवेलायां द्वितीयेऽहनि साऽपतत् । अचीकर शचीशाभस्ता नव्यां नृपतिर्जेवात ॥ २६५ ॥ तृतीयेऽपि तथैवैषा यदा घस्र निपेतुषी । स्थिरीकृताऽपि यत्नेन नानोपायविधानतः ॥ २६६ ॥ तदा बहिःस्थितेनैव भूभुजा सचिवादयः। पृष्टाः केन प्रकारेण स्थिरैषा जायतेऽधुना ॥ २१७॥ परस्परं विमृश्याथ तैनृ पाय निवेदितम् । देव ! दिव्यदृशः स्माहुनिमित्तनिपुणा यथा ॥ २६८ ॥ पुराधिष्ठायिनी देवी भवन्तं प्रति कोपतः। प्रत्यहं पातयत्येतां प्रतोली वलिवाञ्छ्या ।। २६६ ।। यद्यकस्य मनुष्यस्य बलिरस्य प्रदीयते । तदानों जायते राजन् । निश्चलैषा प्रतोलिका ॥३०॥ निशम्यैवं वचो भूभृद्ध्यातवानिति मानसे । अहो! एषां विमूढत्वं कीदृग् पापैकशालिनाम् ॥ ३०१॥ येषामहद्वचोदीपो नो भिनत्त्यान्तरं तमः । पण्डिता अपि ते प्रायः पुमांसः स्युबैहिमुखाः ॥ ३०२ ।। सम्यग्मार्गमजानन्तो मिथ्यात्वतमसाञ्चिताः । निर्विवेकं विचेष्टन्ते देहिनो मद्यपा इव ॥३०३ ॥
EXXXXXXXXXXXXXXXXXXXXXXXXX
॥४२॥