SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ ३६ ॥ ******** ********** तस्मिन् सुधर्मभूपाल: कृपालुजनमण्डनम् । सुधर्माधिपवद्धर्यो बभूव सुमनोवजे ॥ २५० ॥ प्रजापः समितिप्रष्ठः क्षमाभारधुरंधरः । जज्ञे धर्मवतां मुख्यो यो राजा जैनसाधुवत् ॥ २५१ ॥ सद्दर्शनपरागाढ्ये मानसे विमलात्मनि । सदा लीलायते यस्य जिनधर्मसितच्छदः || २५२ ॥ अर्ह त्पूजादयादानैस्तीर्थयात्रार्हगौरवैः । येन पुण्यवता निन्ये गुरुतां जैनशासनम् ॥ २५३ ॥ तस्याजनि महादेवी देवीव दिव्यदीधितिः । श्रीजिनेन्द्रमताम्भोजहंसी जिनमतिः सती ॥ २५४ ॥ पात्रदानं गृहाचारचातुर्य पतिभक्तताम् । बाह्यमण्डनयुक्ताऽपि दधौ याऽन्तरमण्डनम् ।। २५५ ।। मन्त्री सर्वज्ञधर्मद्रुलवित्रीभूतचेष्टितः तस्यासीज्जयदेवाह्वश्चार्वाक मतवासितः ॥ २५६ ॥ यो देवगुरुधर्मादिस्वर्गसिद्धिसुखादि च । मिथ्यात्वोदयमूढात्मा न श्रद्धत्ते कथंचन ।। २५७ ॥ परं नरेन्द्रसंसर्गाच्छद्मना धर्मकर्मणि । सरङ्ग ं भजते बाह्य मुद्गशैलसमानहृत् ॥ २५८ ॥ यथा धर्मयं राज्यं तस्य पालयतोऽनिशम् । चरैरागत्य विज्ञप्तमन्यदा विनयानतैः ॥ २५६ ॥ विभो ! वसन् महापल्ल्यां गुहायामिव केशरी । लुण्टाकश्वरटः ख्यातविक्रम श्रीर्महाबलः ॥ २६० ॥ तनुते भवतो देशे स्वर्गोद्देशोपमेऽधुना । मन्दग्रह इवातङ्क' क्रूरदृष्टिबलोत्कटः ।। २६१ ॥ इत्याकर्ण्य नरेन्द्रेण मृगेन्द्रेणेव गर्जता । अखर्वगर्व संभारभारिणा भणितं यथा ॥ २६२ ॥ तावत्प्रचण्डदोर्दण्डो गजेन्द्र इव गर्जतु । चरटोऽयं निजाटोपाद्भापयन् जनतां मम ॥ २६३ ॥ ************************** द्वितीय प्रस्तावः ॥ ३६ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy