________________
सम्यक्त्वकौमुदी
द्वितीय प्रस्ताव
KXXXXXXXXXXXXXXXXXXXXXXX*
अन्धो यथा विलगितः पथि यत्र धूतस्तस्य स्वरूपमविदन्नपि तेन याति ।
तबद्यदि प्रवरिवर्ति विचारवन्ध्यं सल्लोचनोऽपि तदसौ खलु देवदोषः॥१॥ अधर्मा स्वल्पधर्मा वा भूयो धर्माल्पपापभूः । शुद्धधर्ममयी चात्र चतुर्धाऽनुष्ठितिर्मता ॥ २२७ ॥ पञ्चैतानि पवित्राणि सर्वेषां धर्मवादिनाम् । अहिंसा सत्यमस्तेयं त्यागो मैथुनवर्जनम् ॥ २२८ ॥ सर्वात्मना यतीन्द्राणामेतत्पश्चपदस्थितिः । देशतस्तु गृहस्थानां धर्मोऽयं सर्वसौख्यदः ॥२२९ ॥ इत्यादिदेशनां श्रुत्वा स श्राद्धोऽजनि तत्त्ववित् । पापभीरुतया क्रूरारम्भसंरम्भवर्जकः ॥ २३ ॥ तस्यामेवान्यदा खानौ खनन पुण्यानुभावतः । निधानं धनभृत् प्रापन्निदानं शर्मणामसौ॥ २३१ ॥ तबलेन धनी जज्ञे लेभे ज्ञातिषु गौरवम् । दानं वेश्मानुमानेन ददौ दीनजने पुनः ॥ २३२ ॥ मन्दिरं विदधे नव्यं कैलासगिरिसोदरम् । नानादेशागतप्राणिश्रेणिवासाहभूमिकम् ॥ २३३ ॥ क्रमादुद्वाहयामास पुत्रपौत्रादिसन्ततीः । तादृक्लोकचमत्कारप्रौढोत्सवपुरस्सरम् ॥ २३४ ॥ ततोऽसौ शिल्पिनां श्रेणी प्रापद्राजप्रसादतः। महत्तरपदं यस्माद्धनं सर्वार्थसाधकम् ॥ २३५ ॥ यतः
यस्यास्ति वित्तं स नरः कुलीनः स पण्डितः स श्रुतिमान् गुणज्ञः।
स एव वक्ता सच दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति ॥१॥ पर कुलक्रमायातं शिल्पिकर्म न मुश्चति । वंशानुसारतः प्रायः पुमांसः स्युः क्रियोद्यताः ॥ २३६॥
R॥३७॥