________________
सम्यक्त्व
द्वितीय प्रस्ताव:
कौमुदी
॥३५॥
श्रेयस्कामः समाधाय प्रातःकृत्यं यथोचितम् । देवपूजादयादानपरमेष्ठिजपादिकम् ॥ २०२॥ रचितानेकशृङ्गारसारोदारवपुष्टमः । आस्थानी मण्डयामास द्वितीयेऽसि महीपतिः ॥ २०३॥ राजवर्गः समग्रोऽपि नृदेवं देवतामिव । नत्या प्रसादयामास स्वमनोऽभीष्टसिद्धये ॥ २०४ ॥ कृत्वाऽवसरविक्षेपं दुर्गपालगणाग्रणीः। प्रणनाम नृणां नाथं वार्नाथमिव नाविकः ॥२०५॥ रे! त्वया तस्करोऽदर्शि न वेति वदति प्रभौ । तेनोचे न मयाऽऽलोक्यालोक्यमानोऽपि स क्वचित् ॥ २०६॥ नृपोऽलपत् किमर्थ ते जाता कालविलम्बना । सोऽब्रवीत् कुम्भकारेण कथ्यमाना कथा श्रुता ॥ २०७॥ कथितं नरनाथेन यया रे ! विस्मृतस्तव । दुरन्तमरणातङ्कस्तां का कथयाधुना ॥ २०८ ॥ एवमादेशमासाद्य भूपालाद्दुर्गपालकः । ससंरम्भं सभालोकं कुर्वाणोऽचकथत् कथाम् ॥ २०६ ।। तद्यथाअस्मिन्नेव पुरे कुम्भकारः स्फारयशोभरः । नानाविज्ञानसंपन्नो वर्तते पाल्हणायः॥२१॥ प्रजापेभ्यो मुनिभ्योऽपि प्रजापतितया कथम् । नासौ वर्णाधिको वर्ण्यः स्यात् सर्वाश्रमपोषकः ॥ २११ ॥ आनीयानीय स न्यायान्मृतिको वृत्तिहेतवे । एकस्या एव मृत्खानेवतिन्या निकटे पुरः ॥ २१२॥ भाजनौघं सदाकारं कारं कारं निरन्तरम् । विविधैमधुरालापी विक्रीणाति क्रयाणके ॥ २१३ ॥ युग्मम् ॥ तस्य गेहेऽन्यदा कश्चित्साधुः सिन्धुः शमाम्भसः । वासार्थी सायमायासीत् सीमा ज्ञानक्रियावताम् ॥ २१४ ॥ विनयात्तं नमस्कृत्य कुम्भकृत शुभभावभृत् । शुश्रूषमाणः पप्रच्छ स्वरूपं पुण्यपापयोः ॥ २१५ ॥
KXXXXXXXXXXXXXXXXXXX
॥३५॥