SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ ३४ ॥ *********** समाजं राजहंसानां मृतप्रायं विचेष्टितम् । सोऽपि विज्ञाय मूढात्मा मुमोचाथ तरोरधः ॥ १६१ ॥ सर्वेऽप्यनुक्रमं तेन यावन्मुक्ता अधोभुवि । तावदुड्डीय ते जग्मुट्ट द्रवाचा चतुर्दिशि ॥ १६२ ॥ व्याधोऽपि विफलारम्भस्ततः प्राप निजं गृहम् । भवन्ति प्रायशः पापा असंपूर्ण मनोरथाः || १६३ ॥ पक्षिणस्ते प्रमोदेन ध्वनन्तो मधुरध्वनिम् । ज्यायो हंसपदाम्भोजं प्रणिपत्यावदन्निति ॥ १६४ ॥ भवत्प्रसादपीयूक्यूषधाराऽभिषेकतः । अस्माभिर्जीवितं लेमे विभो ! भुवनवल्लभम् ॥ १६५ ॥ अहो ! वृद्धोपदेशस्य मुखे कटुकताजुषः । महौषधरसस्येव परिणामस्तु शीतलः ॥ १६६ ॥ वृद्धोपदेशममृतोपममादरेण ये स्वादुशीतलतमं कृतिनः पिबन्ति । ते राज्यजीवितसमृद्धिसुखानि चन्द्रगुप्तक्षमापतिरिव द्रुतमाप्नुवन्ति ॥ १६७ ॥ यतः - वृद्धवाक्यं सदा कार्य प्राज्ञैश्च गुणशालिभिः । पश्य हंसान् वने षडान् वृद्धवाक्येन मोचितान् ॥ १ ॥ ततः सितच्छदश्रेणी स्वच्छन्दानन्दधारिणी । वृद्धादेशविधौ निष्ठाः श्लोकमेवं तदाऽवदत् ॥ १६८ ॥ दीर्घकालं स्थिता यस्मिन् पादपे निरुपद्रवे । मूलादेवोद्गता वल्ली शरणाद्भयमागतम् ॥ १६६ ॥ विनष्टं मूलतः कार्यमित्यभिप्रायमात्मनः । सूचितो दुर्गपालेन न ज्ञातो भूभृता पुनः ॥ २०० ॥ इत्याख्यानमाख्याय स ययौ निजवेश्मनि । तदभिप्रायवानेव नृपोऽप्यन्तरःपुरं श्रितः ॥ २०१ ॥ ॥ इति प्रथमदिनकथा ॥ ***** द्वितीय प्रस्तावः ॥ ३४ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy