________________
सम्यक्त्व
कौमुदी
॥ ३३ ॥
******
**************
१८३ ॥
१८४ ॥
निगद्येति फले व्यक्तिर्भाविनीति विचिन्तयन् । ततस्तूष्णीं स्थितो वृद्धद्विजस्तस्थौ क्वचित्तरौ ॥ १८० ॥ कालान्तरेण संवृद्ध आरुरोह लताङ्कुरः । वृक्षोपरि परिक्षीणभाग्ययोगेन पक्षिणाम् ॥ १८१ ॥ लता वितानमालम्ब्य कश्चिद्वयाधाधमोऽन्यदा । चटितो मण्डयामास पाशं तत्र दुराशयः ॥ १८२ ॥ चारं चारं धरापीठे स्वच्छन्दं ते सितच्छदाः । विश्रामाय पुनः सायं समीयुस्तत्र पादपे ॥ मायापाशमजानन्तो निपेतुस्तत्र ते क्षणात् । नितम्बिनीनामङ्गेषु निर्विवेकहृदो यथा ॥ सर्वेषां कूजतां तेषां पाशेन विवशात्मनाम् । वृद्धोऽभ्यधात्तटस्थैौर्वीरुहस्थो हंसनायकः ॥ नोपदेशः कृतः पूर्व हे सुताः ! मे सुखावहः । सांप्रतं गतबुद्धीनां भवतां मृतिरागमत् ॥ वरं बुद्धिर्न सा विद्या विद्यातो बुद्धिमत्ता । बुद्धिहीना विनश्यन्ति यथा ते सिंहकारकाः ॥ १ ॥ हे तात ! जीवनोपायं प्रसन्नीभूय देहि नः । सगद्गदमिति प्रोचुः शोचन्तस्ते स्वचेष्टितम् ॥ १८७ ॥ दयावानवदवृद्धो विशारदधुरन्धरः । उपायो दुर्लभो वत्साः ! विनष्टेऽथ प्रयोजने ॥ १८८ ॥ यतः - अज्ञानभावादथवा प्रमादादुपेक्षणाद्वचत्ययभाजि कार्ये ।
१८५ ॥
१८६ ॥ यतः -
पुंसः प्रयास विफलः समस्तो गतोदके कः खलु सेतुबन्धः ॥१॥ तथाऽपि मृतवद्यूयं तिष्ठत भ्रष्टसन्धयः । करिष्यत्यन्यथा व्याधो भवतां गलमोटनम् ॥ १८६ ॥ अकार्षु स्ते तथा तस्मान्मृर्खाः पश्चात्तु मन्वते । प्रातगृ हीतुकामस्तान् स व्याधः समुपागमत् ॥ १६० ॥
****
द्वितीय प्रस्तावः
॥ ३३ ॥