SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ द्वितीय सम्यक्त्वकौमुद प्रस्तावः ॥३२॥ XXXXXXXXXXXXXXXXXXXXXXXXX वारिभिः पूरितं तत्र पवित्रं दूरितश्रमत् । आसीत सरोवरं राजहंसराजिविराजितम् ॥ १६७ ॥ विशालः सालनामाऽभूत् प्रोन्नतोऽपि नतोऽधिकम् । विटपी निकटे तस्य फलगौरवसंपदा ॥ १६८॥ यः फलानि नमन्नेव निर्विशेषं ददद्भुवि । औपम्यमुत्तमैरेव यदि प्रापत् कथंचन ॥ १६ ॥ तस्योपरि कृतावासा राजहंसाः परः शताः । आसन् पुत्रकलत्रादिकुटुम्बोत्कटचेतसः॥ १७० ॥ परागमोदितस्त्रान्ताः कविषु प्रथितप्रभाः। विवेकवन्तो ये ख्याता न स्युः सद्गतयः कथम् ॥ १७१ ॥ अन्यदा राजहंसेन ज्यायसा सर्वपक्षिणाम् । दीक्ष्य वल्लयङ्कुरं वृक्षमूलमभ्युद्गतं नवम् ॥ १७२ ॥ अभाणि तरुणश्रेणी हंसानां हितकाम्यया । एवढ्द्धेषु वृद्धत्वं यदनागतमूत्रिता ॥ १७३ ॥ युग्मम् ।। लताङ्कुरममुं वत्साः ! मूलं वोऽनर्थसन्ततेः । सुखप्रयाससंसाध्यं निमूलं कुरुत द्रुतम् ।। १७४ ॥ अन्यथा भवतां भावी सर्वेषां दुःखकारणम् । उच्छेद्या आदितो नूनं वैरिव्याधिविषाकुराः ।। १७५ ॥ युग्मम् ॥ इत्याकण्य मरालौघो लघीयान् दधिोऽवदत् । अहो! बिभेति वृद्धोऽपि भवानद्यापि मृत्युतः ॥ १७६ ।। अकस्माद्धयमस्माभिः कस्यावृद्ध ! विधीयते । को हि जानाति कि भावि भविष्यत्समये पुनः॥ १७७॥ निशम्यैवं वचस्तेषां दध्यौ वृद्धो द्विजोत्तमः । अहो ! अमी महामूर्खा यौवनोन्मादमेदुराः ॥ १७८ ।। मयोक्तं नैव मन्यन्ते मन्युवन्तो गुणावहम् । हितोपदेशमत्युग्रं कोपं कुर्वन्ति केवलम् ॥ १७६ ॥ युग्मम् ॥ यतःप्रायः संप्रति कोपाय सन्मार्गस्योपदेशनम् । विलूननासिकस्येव विशुद्धादर्शदर्शनम् ॥१॥ CXXXXXXXXXXXXXXXXXXXXXXX ॥३२॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy