________________
सम्यक्त्वकौमुदी
द्वितीय
प्रस्ताव:
॥२६॥
KXXXXXXXXXXXXXXXXXXXXXXXX
ताभ्यामप्यभिमेने तदैवयोगात्तथैव च । इति संश्रूयते लोके यतः सूक्तं पुरातनम् ॥ १२६ ॥ तादृशी जायते बुद्धियवसायाश्च तादृशाः । सहायास्तादृशा ज्ञेया यादृशी भवितव्यता॥१॥ अन्यदा कश्चनोपायं समायं तेत्रिभिः समम् । आलोच्य भूभृतः कोशे खात्रकर्म कृतं निशि ॥ १२७॥ कोशस्थितानि वस्तुनि शस्तान्यन्यत्र वेश्मनि । संस्थाप्य गुप्तं गच्छद्धिस्तैः पुनः पापकर्मतः ॥ १२८॥ पादुके पृथिवीमा मन्त्रिणा नाममुद्रिका । व्यस्मारिषत तत्रैव कण्ठसूत्रं पुरोधसा ॥ १२६ ॥ अथ प्रभाते भूभर्ता कैतवैकनिकेतनम् । दुर्गपालं समाहूय रोषवानित्यभाषत ॥ १३०॥ मन्प्रसादेन रे दुष्ट ! दुर्गपालपदश्रियम् । भुञ्जानः कुरुषे रक्षां लोके राजकुले न तु ॥ १३१ ॥ गृहीतानि गृहादद्य मदीयात्परमोषिणा । केनापि शस्तवस्तूनि सारभूतानि सम्पदः॥१३२॥ समलिम्लुचवस्तूनि तानि मे द्राग समपेय । पराभवं करिष्यामि नो चेचौरोचितं तव ॥ १३३ ॥ इत्यासाद्य नृपादेशं खात्रालोकनहेतवे । यमदण्डोऽवजद्यावत् संयुक्तः कतिभिर्जनैः॥१३४ ॥ तावत्खात्रमुखे तत्र पादुकामुद्रिकादिकम् । महीभृत्सचिवादीनामालुलोके. स भाग्यतः॥१३५॥ तान्यादाय स विज्ञाय नृपादीन् पश्यतोहरान् । अमन्दखेदवांश्चक्रे चिन्ताचश्चलता हृदि ॥ १३६ ।। अहो । यदि महीनाथो न्यायपाथोनिधिः स्वयम् । स्वकीयं वेश्म मुष्णाति समं च सचिवादिभिः ॥१३७ ॥ तदन्त्र केनचिद्धाव्यं निमित्तेन महीयसा । महतामीदृशी चेष्टा प्रायो भाग्यविपर्ययात् ॥ १३८॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥२६॥