SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी द्वितीय प्रस्ताव: ॥ २७॥ XXXXXXXXXXXXXXXXXXXXXXXXXX) भो भद्र ! भवता कार्य यत्नतो जनपालनम् । दुर्गरक्षाविधौ स्थेयं सावधानतया तथा ॥ १०३ ॥ राजकार्याणि वर्याणि कर्तव्यान्यपराण्यपि । यावदायाम्यहं गेहे पाणौकृत्य जयश्रियम् ॥ १०४॥ इत्युक्त्वा दुर्गपालस्य महीपालः पुरात्ततः । प्राचलज्जययात्रायै चतुरङ्गबलोल्वणः ॥ १०५ ॥ आरभ्य तद्दिनात्तेन जनानन्दप्रदायिना । रक्षणं कुर्वता यत्नात् सर्वः कोऽपि सुखीकृतः ॥१०६ ॥ आवर्जिता जवात्तेन नृदेवतनयादयः। नागरैः श्रेष्ठिभिः सार्द्ध साधुवादविधायिना ॥ १०७ ॥ अथापास्य द्विषद्वर्ग मिथ्यात्वमिव सन्मतिः । सद्दर्शनमिवारोप्य तद्देशे शासनं निजम् ॥१०८॥ पुरे प्रत्यागतस्तत्र सूत्रितानुपदोत्सवे । कतिभिर्वासरै राजा जयश्रीसङ्गमोज्ज्वलः ॥ १०६॥ युग्मम् ॥ तदा लोकः समग्रोऽपि संमुखं पृथिवीपतेः। विविधैर्विधृतानन्दः प्राभृते निभृतोऽगमत् ॥ ११०॥ प्राभृतानि पुरोधाय वृत्ति वैनयिकों दधत् । ववन्देऽथ नृदेवस्य स पादौ दलितापदौ ॥१११॥ दत्वा सन्मानमानन्दादवादीदिति तं नृपः । यूयं कुशलिनः सर्वे वर्तध्वं भो महाजनाः !॥११२ ॥ तैरूचे दुर्गपालस्य स्वामिन् ! न्यायमहोदधेः । प्रसादात्सुखिनोऽतीव वयं वर्तामहेऽधुना ॥ ११३ ॥ श्रुत्वैतद्वचनं राजा चिन्तामेवं दधौ हृदि । विस्मृत्यैभिरिति प्रोचे किं वा मेऽभूद्विपर्ययः १ ॥ ११४ ॥ ताम्बूलं दापयित्वा तु कियद्वेलाविलम्बतः । राज्ञा पृष्टा पुनः प्रोचुस्ते तथैव पुरीजनाः ॥ ११५॥ ततोऽन्तःकोपभृद्भपो भूतिच्छन्न इवानलः । अदर्शयन बहिस्तापं विससजे महाजनम् ॥ ११६ ॥ KXXXXXXXXXXXXXXXXXXXXXXXXX ॥२७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy