________________
सम्यक्त्व
कौमुद
॥ २२ ॥
************************
एवं निशम्य वसुधाधवधोरणीन्द्रः श्रीश्रेणिकः सकललोकसुपर्वशाखी । चित्ते व्यचिन्तयदिदं प्रबलप्रमोदपुरपश्चितवपुः पुलकप्रपञ्चः ॥ ४२ ॥
अहो ! महामोहकरं विधूय महोत्सवं विस्मितविश्वमेनम् । अयं महात्मा दधते विशुद्धां सर्वज्ञधर्मे निजबुद्धिमेवम् ॥४३॥ पुण्यात्मनाऽनेन मदीयदेशः पुरं तथैतत्सकलं गृहं च । पवित्रितं चारुचरित्रभाजा जिनेन्द्रपूजोद्यतमानसेन ॥ ४४ ॥ एवंविधा भवेद्भूयांसो नगरे मम । पुमांसः सकलं राज्यं तदा हि सफलं भवेत् ॥ ४५ ॥ अथोवाच प्रजाधीशः प्रकटं श्रेष्ठिपुङ्गवम् । त्वं धन्यः कृतकृत्यस्त्वं श्लाघ्यं जन्म तवैव हि ॥ ४६ ॥ यस्त्वमेवंविधे विश्वप्रमादपदकारणे । अतुच्छोत्सवसंभारे धर्मकर्मणि कर्मठः ॥ ४७ ॥ प्रमादपरवान् प्राणी सांसारिकमहोत्सवे । जायमाने मवेद्भूम्ना प्रायो धर्मपराङ्मुखः ॥ ४८ ॥ तं तावत्क्रिया तावत्तावन्नियमधीरता । न यावद्देहिनां कार्यं भवेत्संसारसंभवम् ॥ ४६ ॥ त्वयैव मम साम्राज्ये प्राज्यता जाय तेऽखिले । अतस्त्वं सर्व सामग्र्या पूर्जा निश्शङ्कमाचर ॥ ५० ॥ स्वद्गृहिण्योऽपि कुर्वन्तु स्थिता निजगृहे पुनः । त्वया समं महाभाग ! जिनपूजा महोत्सवम् ॥ ५१ ॥ ममापि जायतां पुण्यं पुण्यं त्वदनुमोदनात् । कतु: साहाय्यदातुश्च शास्त्रे तुल्यं फलं स्मृतम् ॥ ५२ ॥ निगद्यैवं मणिस्थालं पश्चात्तस्मै नृपोऽर्पयत् । महान्तो धर्मकार्येषु न कुर्वन्ति प्रतिग्रहम् ॥ ५३ ॥ प्रसादं विशदं दत्वा ततः सन्मानपूर्वकम् । विससर्ज जवाच्छु ष्ठिपुङ्गवं मगधाधिपः ॥ ५४ ॥
10
******
द्वितीय
प्रस्तावः
॥ २२ ॥