SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ द्वितीय सम्यक्त्वकौमुदी प्रस्ताव: ॥२१॥ KXXXXXXXXXXXXXXXXXXXXXXXX चतुर्मासकपर्वाद्य सर्वसत्कर्मकारणम् । सुधान्धसोऽपि कुर्वन्ति यत्र स्नात्रमहोत्सवम् ॥ २८ ॥ सर्वादरेण कतव्या जिनार्चाऽद्य विवेकिना । मयाऽपि निश्चयस्त्वेवं जगृहे जिनसंनिधौ ॥ २४॥ गृहिण्यो मे नपादेशाद्वजन्त्यः सन्ति कानने । समं स्वपरिवारेण कौमुद्यत्सववाञ्छया॥३०॥ ज्योत्स्नया वियुतश्चन्द्रो विद्युता वा पयोधरः । यथा न शोभते लोके गृहिणोऽपि तथा स्त्रिया ॥ ३१॥ इत्यन्तर्मनसं ध्यात्वा प्रोद्भुतप्रतिभस्ततः । विशालं कनकस्थालं नानामणिगणोज्ज्वलम् ॥ ३२ ॥ पाणौ कृत्वा गतो राजकुले सुभटसङ्कुले । ननाम च नृपं यावन्मुक्त्वा प्राभृतमग्रतः॥३३॥ अवदन्मेदिनीनाथस्तावदानन्दमेदुरः । निवेदय निदानं मे श्रेष्ठिन्नागमने निजे ॥ ३४॥ अथ श्रेष्ठी नमत्कायः सच्छायवदनाम्बुजः। स्वमौलौ शेखरीकृत्य पाणियुग्मं जगौ यथा ॥ ३५ ॥ नृदेवाद्य चतुर्मासीपर्व सर्वाधघातकम् । यत्र नन्दीश्वरे यात्रा सुपर्वाणोऽपि कुर्वते ॥३६॥ मयापि श्रीमहावीरजिनाग्रे जगृहे पुरा । समग्रपुरचैत्यानां विधिना पूजनव्रतम् ॥ ३७॥ साधूनां विश्वबन्धूनां वन्दनाऽभिग्रहस्तथा । समं स्वीयकुटुम्बेन सर्वेणामुष्य वासरे ॥ ३८॥ रात्रावेकत्र चैत्ये तु कृत्वा पूजां जगद्गुरोः। गीतनृत्यादिकं कार्य कार्यमित्यस्ति मे विभो! ॥ ३१ ॥ कौमुदीमहनिर्माणे त्वदादेशो जनेऽधुना। एवं सति यथा भावी व्रतभङ्गो न मे मनाग ॥ ४० ॥ यथा च भवदादेशः पालितः स्यान्नृपालक ! । आदिश्यतां तथाऽवश्यमार्हतश्रेणिभूषण !॥४१॥ ॥२१॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy