________________
Xxx
सम्यक्त्वकौमुदी
सप्तमः प्रस्ताव:
XXXXX
॥२०७॥
XXXXXXXXXXXX
प्रतिमानां विधिस्त्वेवं प्रोक्तः प्राच्यमहर्षिभिः। देवानामपि वन्द्यः स्याद्यासामाराधनाद्गृही ।। ७१॥ धर्म प्रतिपद्य गृही विवेकवान भवसमुत्थःखेभ्यः। निविण्णः संवेगात प्रतिपित्सुः श्रमणधर्ममसौ ॥७२॥ तं सम्यग् विज्ञायालोचयतीदं क्षमोक्षमो वाहम् । कतु मिमं यदि शक्तोऽत्यम्युपगच्छति सुमनस्कत्वम् ॥ ७३ ॥ असहस्तु ततः कुरुते दर्शनप्रतिमादिका जिनाभिहिताः । एकादश सुप्रतिमा विधिना सिद्धान्तदृष्टेन ॥ ७४ ॥
दृष्टि १ व्रत २ सामायिक ३ पौषधरूपा ४ स्तथा परा प्रतिमा ५।
प्रतिमा ब्रह्मासेवन ६ सच्चित्तविवर्जने ७ चान्ये ॥ ७५॥ एताः सप्त चतस्रो भवन्ति शेषाः क्रमेण तास्त्वित्थम् । आरम्भ ८ प्रष्यो ह द्दिष्टवर्जने १० श्रमणभूतत्वे ११॥६॥ संक्षेपेणोद्दिष्टाः प्रतिमा एकादशापि गृहधर्मे । सांप्रतमेकैकस्याः स्वरूपदिग्दर्शनं क्रियते ॥ ७७ ॥ ज्ञाते हि तत्स्वरूपे तदनु च परिशीलिते विधानेन । यतिधर्मशक्तियुक्तोन चेति सम्यग् विजानाति ।। ७८॥ जिनवरपूजाऽभिरतो यतिशुश्रूषापरो दृढो धर्म। दर्शनसंत्रां प्रतिमा प्रथमां प्रतिपद्यते विधिना ॥ ७९ ॥ अस्यां प्रतिपन्नायां न भवत्यनाभोगवानयं धर्म । न विपर्ययवानियतं शुभानुबन्धी निरतिचारः॥८॥ तद्वानेवाणुव्रतपञ्चकसम्यक्समाश्रयणरूपाम् । प्रतिपद्यते द्वितीयां प्रतिमामतिचारनिमुक्ताम् ॥ १॥ इत्युक्तवतरूपाप्रतिमाप्रतिपत्त्यपास्तदुष्कमों। प्रतिपद्यते तृतीया प्रतिमा परमप्रशममहिताम् ॥ २॥ सामायिकमिह पूर्व यदनियतविधानकालमाख्यातम् । तदुभयलन्ध्यं शुद्धं मासत्रयमत्र कर्तव्यम् ॥३॥
XXXXXXXXXXXXXXXXXX
॥२०७॥