SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ १७ ॥ ************* यथा यथार्हतां भक्तिः सद्गुरूणां च निस्तुषा । वर्द्धते दर्शनस्यापि नैर्मल्यं हि तथा तथा ॥ १६६ ॥ यस्य सद्दर्शनं शुद्धं पश्चात चारवर्जनात् । भवे भवे भवेदेष वर्द्धिष्णुमुखसङ्गमः ॥ १७० ॥ जैनेश्वरपदं चक्रपदमिन्द्रपदं तथा । प्रौढराजपदं प्राप्य क्रमेण शिवशर्मभृत् ॥ १७१ ॥ युग्मम् ॥ इत्यर्ह देशनां श्रुत्वा तत्वालोकप्रदीपिकाम् । मिथ्यात्वतिमिरध्वंसविशुद्धीभूतहृत्तदा ।। १७२ ॥ क्षपकश्रेणिमारूढः सप्तकक्षपणावधि । सम्यक्त्वं क्षायिकं चक्र े दृढं श्रेणिकभूपतिः ॥ १७३ ॥ युग्मम् ॥ arrest सम्यक्त्वं विमलीकृत्य दीपकम् । नत्वा जगद्गुरोरेवं विज्ञप्तिं विदधे तदा ॥ १७४ ॥ नाथौपशमिकादीनां सम्यक्त्वानां प्रसादय । विभागं मे ततः स्माह जिनस्तस्याग्रतः पुनः ॥ १७५ ॥ प्रदेशतोऽपि मिथ्यात्वदलिकानामवेदनात् । सम्यक्त्वमौपशमिकं प्रसन्नाम्बुसमं भवेत् ॥ १७६ ॥ क्षायोपशमिकं श्रेष्ठिन् ! तत्प्रदेशानुभूतितः । किञ्चित्कलुषनीराभं सद्दर्शनमुदीरितम् ॥ १७७ ॥ त्रिविधस्यापि पुञ्जस्य क्षयेन क्षायिकं स्मृतम् । सम्यक्त्वं सर्वथा शुद्धपयः पूरोपमं तथा ।। १७८ ॥ असंप्राप्तस्य मिथ्यात्वं सम्यक्त्वात्तु निपेतुषः । सासादनं भवेद्वम्यमानान्नानुभवोपमम् ॥ १७६ ॥ सम्यक्त्वा रसोत्कर्षवेदनाद्वेदकं मतम् । परेषां देहिनामेतद्दीपनाद्दीपकं पुनः ॥ १८० ॥ सासादनोपशमिके पञ्चकृत्व शरीरिणाम् । असंख्यात मिता वाराः क्षायोपशमिकं तथा ॥ १०१ ॥ क्षायिकं वेदकं च स्युरेकवारं भवोदधौ । अन्यानि प्रतिपातीनि विनान्त्यं दर्शनद्वयम् ॥ १८२ ॥ युग्मम् ॥ FXXXX प्रथमः प्रस्तावः ॥ १७ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy