________________
सम्यक्त्व
कौमुदी
॥ १५ ॥
*****
************
अर्हद्दासाभिधः श्रेष्ठी नैष्टिकश्रेणिशेखरः । प्रणम्य प्राञ्जलिर्भक्त्या प्रावदद्विदुराग्रणीः ॥ १५६ ॥ युग्मम् ॥ कार्या त्रिलोकीश ? मया त्रिकालं पूजा जिनेन्द्रस्य विशुद्धभक्त्या । चतुर्दशीमुख्य विशेषपर्व दिने पुरा शेषजिनार्चना च ॥ १५७ ॥
था चतुर्मासिक वार्षिकादिप्रसिद्धपर्वस्वपि शुद्धबुद्धया । स्नात्राभिषेकः स्वकुटुम्बलोकश्रितेन कार्यश्च महोत्सवौषैः ॥ १५८ ॥ सर्वेषु चैत्येषु जनेश्वराणां तथा नमस्कारविधिविधेयः ।
स्ववेश्मचैत्ये विधिनार्चनां च विधाय सङ्गीतमथो निशायाम् ॥ १५६ ॥ त्रिभिर्विशेषकम् ॥
एवं मे निश्चयो भूयात्वत्प्रसादेन सर्वदा । स्थिरस्वान्तो व्रते भूयाः प्रशंशेसति तीर्थकृत् ॥ १६० ॥ प्रणम्य श्रीजिनाधीशं विधिना मगधाधिपः । मौलौ वतंसं पाणिभ्यां तन्वन् विज्ञप्तवानिति ॥ १६१ ॥ प्रभो ! धर्मस्य सर्वस्वं सर्वोत्कृष्टसुखप्रदम् । मम स्वरूपं न्यक्षेण सम्यक्त्वस्य प्रकाशय ॥ १६२ ॥ उवाच भगवानेवं देवानन्दात्मजस्तदा । विज्ञप्तो नरदेवेन देवाधीशादिपदाम् ॥ १६३ ॥ भगवद्भिर्जिनैः सर्वैर्धर्मसाधनमादिमम् । सम्यग्दर्शनमाम्नातं तदनेकविधं पुनः ॥ १६४ ॥ उक्तं चएगविह दुविह तिविहं चउहा पंचविह दसविहं सम्मं । एगविहं तत्तरुई निस्सग्गुवएसओ भवे दुविहं ॥ १ ॥
************************)
प्रथमः
प्रस्तावः
॥ १५ ॥