SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रथमः प्रस्ताव ॥१४॥ KXXXXXXXXXXXXXXXXXXXXXX वाञ्छति स्वल्पकालेन पुमान् शिवफलानि यः। त्रिवेलं तेन यत्नेन पूजा कार्या जिनेशितुः॥१४७॥ जो पूएइ तिसंझं जिणिंदरायं तहा विगयदोस । सो तइयभवे सिज्झइ अह वा सत्तहमे जमे ॥१४८॥ एषा स्तोकाऽपि लोकानां विवेकेन कृता सती । महाफलाय जायेत काले जलदवृष्टिवत् ॥१४६ ॥ यतः जिनपूजनं जनानां जनयत्येकमपि संपदः सकलाः । जलमिव जलदविमुक्तं काले शस्यश्रियो निखिलाः॥१॥ क्रूरकर्मद्रुमारामसमृलोन्मूलनक्षमा । पूजैव जगदैश्वर्यहेतुः सेतुर्भवाम्बुधौ ॥ १५० ॥ किं बहुनाऽर्हता पूजा बुधैरष्टविधा स्मृता । तत्तत्फलभरप्राप्तिव्यक्तमाहात्म्यशालिनी ॥ १५१ ॥ यतःपुष्पात्पूज्यपदं जलादिमलता सडूपधूमादिषवृन्दध्वंसविधिस्तमोपहननं दीपाद्धृतास्निग्धता । क्षेमश्चाक्षतपात्रतः सुरभिता वासात्फलादूपता, नृणां पूजनमष्टधा जिनपतेरौचित्यलभ्यं फलम् ॥१॥ द्रव्यभावप्रकाराभ्यां द्विधा संक्षेपतोऽर्चना । द्रव्यादनेकभेदा स्यादनन्ता भावतः पुनः ॥ १५२ ॥ आद्योत्कृष्टं फलं ख्यातमच्युतस्वर्गसंपदः । भावोत्कृष्टफलं त्वन्तमु हत्तेनापि नितिः ॥ १५३ ॥ यतःउक्कोसं दव्वथयं आराहियं जाइ अच्चुयं जाव । भावत्थएण पावइ अंतमुहूत्तेण निव्वाणं ॥२॥ एवमहेद्वचः श्रुत्वा कृत्वा मनसि वासनाम् । देवपूजाव्रतं लोकरनेकैः प्रत्यपद्यत ॥ १५४ ॥ कृत्यवित् श्रवणोत्तंसीकृत्य वीरजगद्गुरोः । वाचः सुधामुचश्चञ्चद्रोमाञ्चाञ्चितविग्रहः ॥ १५५ ॥ XXXXXXXXXXXXXXXXXXXXXXXX ॥१४॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy