________________
सम्यक्त्वकौमुदी
पञ्चमः प्रस्ताव:
॥१६७॥
XXXXXXXXXXXXXXXXXXX:*
स्तुवन्तो धर्ममाहात्म्यं बुद्धदासादयः पुनः। सवधक सुतं वेश्मन्यानिन्युः समहोत्सवम् ॥ २४०।। तस्मिन्नवसरे तत्र यशोधरमहामुनेः । उत्पेदे केवलज्ञानं लोकालोकप्रकाशकम् ।। २४१॥ सम्यग्दृष्टिसुरश्रेणिरासन्नानन्दमेदुरा । तं मुनीन्द्रं नमस्कृत्य तदुत्सवमचीकरत् ।। २४२ ॥ वन्दितुं तं समाजग्मुभूपतिनरवाहनः बुद्धदासादयः पौरजनाः पद्मश्रियाऽन्विताः ।। २४३ ।। निविष्टोऽथाम्बुजे हेमे केवलज्ञानवान् मुनिः । दिदेश तेषां सद्धर्ममार्ग विश्वहितावहः ॥ २४४ ॥ दुष्प्राप्यं प्राप्य मानुष्यं रत्नद्वीपमिवाज्बुधौ । धर्मचिन्तामणिमा॑यः सुविशुद्धः सुखार्थिना ॥ २४५॥ प्रमादात्तं तिरस्कृत्य यः पुमर्थेषु धावति । आत्मानं शोचते पश्चान्स प्राप्तो दुःखसन्ततिम् ॥ २४६ ॥ स्वं स्वं धर्म प्रशंसन्ति प्रायो दर्शनिनोऽखिलाः । परं परीक्षया शुद्धो ग्राह्योऽसौ तु विवेकिना ॥ २४७ ॥ उक्तं च
__ यथा चतुर्भिः कनक परीक्ष्यते निघर्षणच्छेदनतापताडनैः ।
.. तथैव धर्मो विदुषा परीक्ष्यते श्रतेन शीलेन तपोदयागुणैः ॥१॥ असौ दशविधो धर्मो मिथ्यादृष्टेरगोचरः । वस्तुतः शासने जैने नाम्नाऽन्यत्र मते पुनः॥ २४८ ॥ सर्वेषां वाचि तत्त्वार्थः कस्यचिद् हृदयेऽपि च । क्रिययाऽपि स्फुरत्येव सदा जिनमतस्पृशाम् ॥ २४६॥ वेदस्मृतिपुराणादिनिविष्टमतयो द्विजाः। न गन्धमपि जानन्ति धर्ममार्गस्य तत्त्वतः ॥ २५० ।। मद्यमांसाशिनो भक्ष्याभक्ष्यादिष्वविवेकिनः । ताथागतादयो नैव विविदुधर्मसारताम् ।। २५१ ।।
॥१६७॥