SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी पश्चमः प्रस्ताव: ॥१६६॥ KXXXXXXXXXXXXXXXXXXXXXXXXX सशोकः कोपवान् प्रोचे तत्त्वातत्त्वबहिष्कृतः । हे शाकिनि ! त्वया सुनूारितोऽस्ति पलेच्छया ॥ २२७॥ एतं जीवय पापिष्ठे। पुत्रं पुण्यवतां वरम् । नो चेदहं हनिष्यामि त्वामपि क्षमापपूरुषैः ॥ २२८ ।। एतत्कोलाहलं श्रुत्वा सर्वोऽपि नगरीजनः । समाययौ पदे तत्र तस्या धिक्कारकारकः ॥ २२६ ।। स्वरूपं तादृशं ज्ञात्वा पद्मश्रीरित्यचिन्तयत् । दुष्कर्माण्युदयं प्रापुः प्राक्तनानि ममाधुना ॥ २३०॥ परं यस्माद्भवेज्जन्तोर्मालिन्यं जिनशासने । दुर्लभं बोधिरत्नं स्यात्तस्यागामिनि जन्मनि ॥ २३१ ॥ तदहं जीवयाम्याशु पतिं धर्मानुभावतः । मन्त्रादिभ्योऽतिशेते यत् सम्यग्धर्मस्य वैभवम् ॥ २३२ ॥ समक्षं न्यक्षलोकानामाचख्यौ सा क्षमावती । यद्यस्ति मे जगत्पूज्ये सम्यक्त्वे सुदृढं मनः ॥ २३३॥ जैनेन्द्रशासनं सत्यं सर्वतीर्थातिशायकम् । तदा तस्यानुभावेन शीघ्र' जीवतु मे पतिः॥ २३४ ॥ युग्मम् ।। पस्पर्श पाणिपद्मन साऽथ यावन्निजं पतिम् । तावज्जयजयारावैः सममुत्थितवानसौ ॥ २३५।। पश्चाचर्य सुरैश्चक्रे पुष्पवृष्टयादिकं पुनः । तस्याः सम्यक्त्वसौन्दर्यसुरभीभूतमानसः ।। २३३ ॥ तदाश्चर्यरसाकृष्टस्तत्रागत्य नराधिपः । पद्मश्रियः पदाम्भोजं ननाम नरवाहनः ॥ २३७ ॥ आर्षभाः सूनवः साधं जहषुः स्वजनादिभिः । परामुन्नतिमायातं श्रीजिनेश्वरशासनम् ॥ २३ ॥ सम्यग्दृशस्त्रिदशभूपमहेभ्यमन्त्रिविद्याधरा विविधलब्धिभृतो मुनीन्द्राः। सौभाग्यशीलगुरुभक्तिजुषः स्त्रियश्च श्रीजैनशासनमिहोन्नतिमानयन्ति ॥ २३६ ॥ XXXXXXXXXXXXXXXXXXXXXXXXXX ॥१६६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy