________________
सम्यक्त्व
कौमुदी
॥ १६३॥
*******
**************
ततः पद्मश्रिया दत्वा बहुमानं यथाक्रमम् | भोजयन्त्या स्फुरद्युक्त्या स्वादुभिर्विविधै रतैः ॥ १८७ ॥ तत्कवामपदत्राणमाजिनं मरिचादिभिः । संस्कृत्य भोजितः पेयारूपीकृत्य च तद्गुरुः ॥ १८८ ॥ युग्मम् ॥ अथ ते भोजनं कृत्वा यथेष्टं बहुगौरवात् । उत्थिताः पूजिता भक्त्या श्रेष्ठिना चन्दनादिभिः ॥ १८६ ॥ व्यग्रास्मि बहुभिः कायैरद्याहं सौगतेश्वर ! । प्रातर्धर्मं ग्रहीष्यामि भवदुक्तं महोत्सवैः ॥ १६० ॥ गन्तुकामास्तयाऽऽगत्य कृतव्याकुलया ततः । सम्प्रति व्रजतेत्युक्ताः प्रस्थितास्ते मठं प्रति ॥ १६१ ॥ अदृष्ट्रा ते पदत्राणं गुरोरेव परस्परम् । दृष्टं केनेति जल्पन्तश्चक्रुः कलकलं तदा ॥ १६२ ॥ मिमिलुः स्वजनास्तत्र वेगात्तद्दर्शनोत्सुकाः । पद्मसङ्घ' पुनः पद्मश्रीरुवाच कृताञ्जलिः ॥ १६३ ॥ ज्ञानेन येन भगवन् ! गदिता मत्पितुर्गतिः । तेनैवेदं विजानातु पादत्राणं स्वयं गुरुः ॥ १६४ ॥ एतत् श्रुत्वा गुरुः प्रोचे क्रोधाध्माततमाशयः । धर्मधूर्ते दुराचारे न चेदृग् ज्ञानमस्ति मे ।। १६५ ॥ ततः समक्षं सर्वेषामृषभश्रेष्ठिनन्दिनी । अवादीत्स्वोदरे न्यस्तं पादत्राणं स्वकीयकम् ॥ १६६ ॥ अजानानः कथं वेत्सि मत्पितुर्गतिमीदृशीम् । कथं हि चषकाविज्ञो नन्दीं कर्तुं समीहसे ॥ १६७ ॥ युग्मम् || यदि न प्रत्ययस्ते स्यात्तदा वम मदन्नकम् । तेनापि च तदा चक्रे क्र रक्रोधान्धचेतसा ॥ १६८ ॥ सूक्ष्माणि चर्मखण्डानि दृष्ट्वा तत्र जनोऽखिलः । अहो ! ज्ञानं गुरोरस्य हास्यस्मेरमुखोऽवदत् ॥ ततस्तं लञ्जितस्वान्तं शान्तयित्वा कथञ्चन । स्वस्थाने प्रेषयामास बुद्धदासः सशिष्यकम् ॥ २०० ॥
१६६ ॥
*****
**************
पश्चमः
प्रस्तावः
॥ १६३॥