SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी पञ्चमः प्रस्ताव: ॥१६२॥ पापस्थानानि सन्त्यज्य त्रिविधत्रिविधात्मना । क्षमित्वा सर्वजीवेषु मुक्ताशेषपरिग्रहः ॥ १७३॥ आराध्य निरतीचारं श्राद्धधर्म यथोदितम् । आनन्द इव सानन्दश्चतुःशरणमाश्रितः ॥ १७४ ॥ समाधिना वपुस्त्यागं कृत्वाऽऽहारपराङ्मुखः । वैमानिकः सुरो जज्ञे परधिंधु तिमन्दिरम् ॥ १७५ ॥ पडिभः कुलकम् ॥ तद्वियोगेन दुःखार्ता पद्मश्रीः श्राविका ततः। विशेषात्कुरुते पुण्यं सर्वातिहरणक्षमम् ॥ १७६ ॥ अन्येयुः समयं प्राप्य दृष्टि रागान्धमानसः । पद्मश्रियं समाहूय बुद्धदासोऽभ्यधादिति ।। १७७ ॥ भद्रे ! तब पिता जातो मृत्वोद्याने मृगार्भकः । जिनधर्मविमृढात्मा गुरवो मेऽवदन्निति ॥ १७८ ॥ साऽपि दध्यौ तदाकर्ण्य कर्णक्रकचसन्निभम् । येन पुण्यवताऽकारि धर्मः सर्वात्मनाऽनिशम् ॥ १७६ ॥ स कथं मत्पिता यायादशुभामीदृशीं गतिम् । प्राप्तचिन्तामणिः प्राणी किं दौगत्येन पीडयते ॥ १८० ॥ तदसौ भाषते मिथ्या मिथ्यादृष्टिगुरुब्रुवः। अज्ञातजिनतत्त्वोऽङ्गी किं न जल्पति पापवान् ॥ १८१॥ श्वशुरं सा ततः प्रोचे पूज्यो युष्मद्गुरूत्तमः। नैव सम्यग्विजानाति यदित्थं कथयत्यसौ ॥१२॥ अथ ज्ञानेन जानाति यदि गत्यादि देहिनाम् । तदा मयाऽपि कर्तव्यं व्रतं ताथागतोदितम् ॥ १८३ ॥ परं तं सपरीवारं भोजयित्वा गृहे निजे । अङ्गीकृत्योत्सवाद्धर्मस्तदुक्तः पालयिष्यते ॥ १८४॥ विधाय सर्वसामग्री भोजनार्थ वधूगृहे । बौद्धानाकारयामास श्रेष्ठी हृष्टमनास्ततः ॥ १८५॥ समग्रपरिवारेण पद्मसङ्घगुरुः पुनः। आगमद्भोजनाद्यर्थं यदेतद्विश्ववल्लभम् ॥ १८६॥ XXXXXXXXXXXXXXXXXXXXXXXX ॥१६२॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy