________________
सम्यक्त्व
कौमुदी
॥१५६॥
**********:
सुरासुरगणाराध्यं मार्ग सर्वज्ञदर्शितम् । चिन्तारत्नमिवासाद्य दुष्प्रापं भवकोटिभिः ॥ १३६ ॥ विधूय गम्यते कस्मादमार्गे कुगुरूदिते । असद्दर्शनरागान्धैर्भवद्भिर्निपुणात्मभिः ॥ १३७ ॥
स माणिक्यं परित्यज्य काचमादातुमीहते । उन्मूल्य स्वस्तरु वप्तुं भूरुहं त्ववकेशिनम् ॥ १३८ ॥ हित्वा जिनेश्वरं धर्मं सत्यशीलदयामयम् । आदत्ते सौगतं मार्ग यो विवेकिजनोज्झितम् ॥ १३६ ॥ युग्मम् || आर्या विचार्य तत्सर्वं लोकोभयसुखावहे । धृतिं कुर्वन्तु सद्धमें मान से राजहंसवत् ॥ १४० ॥ धर्मानुशासनं तेषां दत्तं पद्मश्रियाऽभवत् । शमनीयौषधं यद्वद्दोषायाभिनवे ज्वरे ॥ १४१ ॥ प्रियाद्याः स्वजना लक्ष्मीर्भोगाश्च भववर्त्मनि । जीवेनानन्तशः प्राप्ता जैनधर्मो न तु क्वचित् ॥ १४२ ॥
एवं विमृश्य सा जैनधर्म एव दृढाऽभवत् । तद्भावं न भजत्येवं स्थितः काचेषु यन्मणिः || १४३ ॥ युग्मम् || आकर्ण्य ऋषभः श्रेष्ठी तद्गृहाचारमन्यदा । तत्रागत्य पुनर्दृष्ट्वा विचारमिति निर्ममे ॥ १४४ ॥ अहो ! मायाविनाऽनेन धर्मंछद्मवितन्वता । वञ्चितः सकुटुम्बोऽहं मुषितो हन्त ! कर्मणा || १४५ ॥ कायैकनिष्ठः पापात्मा मायां सर्वत्र शीलयेत् । न पुनर्नरकक्रोडे पतन्तं स्वं विलोकयेत् ॥ १४६ ॥ यतः— मायामविश्वासविलासमन्दिरं दुराशयो यः कुरुते धनाशया ।
सोऽनर्थसार्थं न पतन्तमीक्षते यथा बिडालो लकुटं पयः पिबन् ॥ १ ॥ अन्यत्रापि कृतो नूनं प्रपञ्चः पापहेतवे । धर्मेण वञ्चनान्येषां नरकायैव केवलम् ॥ १४७ ॥
******
***************:)
पञ्चमः प्रस्तावः
॥ १५६ ॥