________________
सम्यक्त्वकौमुदी
पश्चमः प्रस्ताव:
॥१५८॥
भद्रे ! पतिगह नव्यसंप्राप्ताऽस्थिरधर्मकम् । मिथ्यात्विजनसंसर्ग किश्चित्कलुषतास्पदम् ॥ १२५ ॥ परं त्वया दृढीकार्य मनो धमें जिनोदिते । न प्रमादः स्वयं कार्यः षोढावश्यककर्मसु ॥ १२६ ॥ युग्मम् ।। यौवनं पतिसम्मानं प्रमत्तजनसङ्गतिः । प्राप्तिश्च सम्पदा जन्तुं मदयन्त्यविवेकिनम् ॥ १२७ ।। लजौचित्यविनीतत्वदाक्षिण्यप्रियभाषिताः। पतिगेहगतां योषां भूषयन्ति गुणा अमी ॥ १२८ ॥ यतःलज्जा दया दमो धैर्य पुरुषालापवर्जनम् । एकाकित्वपरित्यागो नारीणां शीलरक्षणे ॥१॥
निर्व्याजा दयितादौ भक्ता श्वश्रषु वत्सला स्वजने ।
स्निग्धा च धन्धुवर्गे विकसितवदना कुलवधूटी ॥२॥ प्राणेभ्योऽप्यधिक शीलं पालनीयं ततोऽनिशम् । विषमेऽपि जिनेन्द्रोक्तो धर्मो मोच्यस्त्वया न तु ॥ १२ ॥ एवं शिक्षा पितुःप्राप्य पद्मश्रीमुदितानना । मातृपितृपदाम्भोजे नत्वा पत्या सहाव्रजत् । १३०॥ पद्मश्रियं पुरस्कृत्य ततः श्रियमिवाङ्गिनीम् । बुद्धसङ्घो निजं धाम जगाम परमोत्सवम् ॥ १३१ ॥ कल्पवल्लीमिवालोक्य त्रिलोकानन्ददायिनीम् । वधू मुमुदिरे सर्वे स्वजनाः श्वशुरादयः॥ १३२ ॥ जिनेन्द्रधर्ममाराध्य कियतो दिवसांस्ततः । वधूवर्गस्य दाक्षिण्यात छद्मना निजसद्मनि ॥ १३३ ॥ मिथ्यात्वोदयतो बौद्धधर्म धर्मज्ञन्यत्कृतम् । अस्थापयबुद्धसङ्घः कुटिलः स्वकुटुम्बके ॥ १३४ ॥ युग्मम् ॥ बौद्धाचारपरान् दृष्टा गृहे लोकान् विवेकिनी । पद्मश्रीः पूज्यपादेषु पतित्वेति व्यजिज्ञपत् ॥ १३५ ॥
॥१५८॥