SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१५७॥ ******* ********** श्रुत्वेति ऋषभः साधुर्दध्यौ शुद्धान्त्रयद्वयः । बुद्धदासो मयाऽऽहूतो भुक्त्यर्थ गृहमागतः ॥ १११ ॥ धनी मान्योऽभिमानी च वदान्यो ज्ञातिवत्सलः । नवीनप्रतिपन्नार्हद्धर्ममार्गस्त्वयं तथा ॥ ११२ ॥ तदसौ जिनधर्मस्य मोक्ता मा स्यात्कदाचन । एतत्कार्यनिषेधं मे कुर्वतः सांप्रतं सतः ॥ ११३ ॥ साधर्मिकस्य सततं नवीनप्राप्तधर्मणः । स्थिरता क्रियते येन तच्चातुर्य प्रशस्यते ॥ ११४ ॥ समानधर्मशीलस्य गृहमाप्तस्य कर्हिचित् । निजसर्वस्वदानेन सुकृती भक्तिमावहेत् ॥ ११५ ॥ कन्येयं क्वापि दातव्या वयःप्राप्ता विशेषतः । सदाचारगृहप्राप्तिः परं तस्याः सुदुर्लभा ।। ११६ ॥ कुलशीलवयोविद्याधर्माढ्यो धनवान्नयी । वरो यत्प्राप्यते नार्या तदुग्रतपसां फलम् ॥ ११७ ॥ तदयं जायतां योगः स्वर्णमाणिक्ययोरिव । अनयोः सद्गुणैः साम्यं विभ्रतोर्जगतोऽद्भुतैः ॥ ११८ ॥ इत्यालोच्य कलत्रेण पवित्रेण सह क्षणम् । त्वत्पुत्राय मया पुत्री दातव्या ऋषभोऽभणत् ॥ ११६ ॥ सानन्दहृदया यूयं कुरुध्वं भोजनं पुनः । सर्वेषु गृहकृत्येषु यदेतत्प्रथमं फलम् ॥ १२० ॥ बुद्धास्तच भोजनं मुदिताननः । अकार्षीत् सोऽपि तद्भक्ति धर्ममाहात्म्यदर्शिनीम् ॥ १२१ ॥ निर्ममे श्रेष्ठमुख्याभ्यामन्योन्यं रक्तयोस्तयोः । क्रमेण विस्मयानन्ददायी पाणिग्रहोत्सवः ॥ १२२ ॥ ऋषभः सवधूकाय वराय प्रीतिहेतवे । ददौ यौतकदानानि निखिलानि गृहस्थितेः ॥ १२३ ॥ निवृत्तेऽथ क्षणश्रेणिहारिण्युद्वाहकर्मणि । श्रेष्ठी पद्मश्रियः शिक्षां ददावेवं विचारवान् ॥ १२४ ॥ ******** ************** पश्चमः प्रस्तावः ॥ १५७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy