SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ।। १५६ ।। क्रियाशून्यश्च यो भावो भावशून्याश्च याः क्रियाः । अनयोरन्तरं दृष्टं भानुखद्योतयोरिव ॥ १ ॥ मानुषत्वादिकं प्राप्य यः पुण्याय प्रमाद्यति । मन्दायते सुदुर्बुद्धिः सुधापान उपस्थिते ॥ ६६ ॥ चिन्तारत्नमिवासाद्य धर्मं सम्यक्त्व पूर्वकम् । प्रमादो नैव कर्तव्यस्तदाराधनकर्मणि ॥ १०० ॥ छद्मसद्माऽप्यथावादीद्बुद्धदासः प्रमोदभृत् । जजागार मदीयोऽद्य भाग्यसम्भारसागरः ॥ १०१ ॥ जिनेन्द्रशासनं लेभे भवकोट्यापि दुर्लभम् । यन्मया मोहमूढेन दुर्गतेनेव सन्निधिः ॥ १०२ ॥ प्राचीनगण्य सत्पुण्यविपाकोऽयं ममोदितः । यन्मैत्री भवता सार्धं प्राप्ता पुण्यवता सता ॥ १०३ ॥ rai पुनः स्थितु किश्चित्साजन्यमानयोः ' । शश्वद्गौरव सिद्धयर्थं समीहेऽहं हितावहम् ॥ १०४ ॥ तावेवं मुदितौ कृत्वा गुणश्लाघां परस्परम् । वन्दित्वा श्रावकत्वेन जग्मतुः स्वगृहाङ्गणम् ।। साधर्मिकेषु वात्सल्यमन्येद्युर्विदधन मुदा । ऋषभो बुद्धदासाख्यं श्रेष्ठिमुख्यं नास्तिकम् ॥ निमन्त्र्य भोजनाद्यर्थं प्रतिपत्तिपुरस्सरम् । उचितं भोजनस्थानं यावता तं न्यवीविशत् ॥ १०७ ॥ तावन्निजमहोत्साहभरादाहतगौरवम् । कुर्वन्तमृषभं बुद्धदासोऽभाषिष्ट दुष्टधीः ॥ १०८ ॥ भोजनं रोचते मह्यं तदैव युष्मदालये । स्वदङ्गजां तनूजो मे पाणौ कुर्याद्यदोत्सवैः ॥ १०६ ॥ निर्धर्मा निर्निमित्तं यः परान्नं प्रेतवत्पुमान् । धूर्तोऽश्नाति गृहे तस्य स दासत्वमवाप्नुयात् ॥ ११० ॥ १. सौजन्यं - साजान्यम् । १०५ ।। १०६ ॥ ****** पश्चम प्रस्ताव: ॥१५६॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy