________________
सम्यक्त्व
कौमुदी
।। १५५।।
*******
****
निरीक्ष्य ऋषभस्तस्य मुक्तमिथ्यात्खवर्त्मनः । जिनेन्द्र मार्गगामित्वं प्रशंसामकरोदिति ॥ ८७ ॥ धन्यानामग्रणीरेष बुद्धदासः श्रियः पतिः । कुलक्रमागतं येनोन्मूल्य मिथ्यात्वमुत्कटम् ॥ ८८ ॥ कुशासनमयान् पाशान् विश्वव्यामोहकारिणः । समुच्छिद्य जिनेन्द्राणां शासनं प्रत्यपद्यत ॥ ८६ ॥ युग्मम् ॥ सर्वः कोऽपि सुखाद्याति पूर्वजक्षुण्णवर्त्मनि । तद्विवेक्येव निर्धू य सम्यग्धर्मरतो भवेत् ॥ ६० ॥ उक्तं चप्रतिपच्चन्द्रं सुरभी नकुलो नकुलीं पयश्च कलहंसः । चित्रकवल्लीं पक्षी सम्यग्धर्मं सुधीर्वेत्ति ॥ १ ॥ तदस्य सकुटुम्बस्य शुद्धधर्मजुषोऽधुना । वात्सल्यमुचितं कर्त्तुं वेश्मन्याकार्य गौरवात् ॥ ६१ ॥ श्रियः सफलता वेश्मपावित्र्यं शासनोन्नतिः । तीर्थंकृत्कर्मणः प्राप्तिर्वात्सल्यस्य गुणा अमी ॥ ६२ ॥ ततः स बुद्धदासेन श्रीनिवासेन सौहृदम् । धीमान् प्रविदधे नव्यसद्धर्मस्थिरताकृते ॥ ६३ ॥ परस्परं यथौचित्याद्ददतोः प्रतिगृह्णतोः । पृच्छतोगुं ह्यमाख्यातोस्तयोः प्रीतिरवर्धत ॥ ६४ ॥ अध्यक्षं बुद्धदासस्य ऋषभश्रेष्ठिनाऽन्यदा । व्यधायि धर्मस्थैर्यार्थ सद्भूतगुणकीर्तनम् ॥ ६५ ॥ यूयं विश्वत्रयश्लाध्याः कुलं वोऽद्याभवत् शुचि । धर्मकल्पद्रुरारोपि भवता यन्निजालये ॥ ६६॥ लभ्यन्ते संपदः सर्वाः स्वर्गैश्वर्येण संश्रिताः । न परं प्राप्यते प्रायो धर्मः सर्वज्ञदर्शितः ॥ ६७ ॥ यतः -
अपि लभ्यते सुराज्यं लभ्यन्ते पुरवराणि रम्याणि । न लभ्यते विशुद्धः सर्वज्ञोतो महाधर्मः ॥ १ ॥ सम्यग्भावेन कर्तव्यो भवद्भिस्तदयं सदा । येन सिद्धिवधूसौख्यसङ्गमः सुलभो भवेत् ॥ ६८ ॥ यतः -
***
पश्चम प्रस्तावः
॥ १५५ ॥