SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥ १५४॥ ****** ***** गोव्रतं गोधनाच च विष्णुकान्ता मुखस्थितिः । धर्मार्थं तूलिकादानं पापकुम्भादिकाः क्रियाः ॥ ७७ ॥ गोभूमिवर्णदानानि भूदेवेभ्यः शिवाप्तये । महामायाचना पुत्राद्यर्थं क्षेत्रप्रपूजना ॥ ७८ ॥ गुरुदेवगतं प्रोक्तमिति मिथ्यात्वमागमे । लौकिकं भूरिसंसारदुः खराशि निबन्धनम् ॥ ७६ ॥ लोकोत्तरं देवगतं प्राहुर्मिथ्यात्वमीदृशम् । कुतीर्थिकगृहीतेषु जिनबिम्बेषु पूजनम् ॥ ८० ॥ आशातनाविधानं च जैनचैत्यगृहादिषु । निषेधस्त्वनिषिद्धानां निषिद्धेषु तथादरः ॥ ८१ ॥ युग्मम् ॥ मिथ्यात्वं भवबीजाभं गुरुश्रितमिदं पुनः । शीलभ्रष्टादिसाधूनां वन्दनापूजनादृतिः ॥ ८२ ॥ यतःजे लोउत्तमलिंगा लिंगियदेहावि पुप्फतंबोलं । आहाकम्मं सव्वं जलं फलं चेव सच्चितं ॥ १ ॥ भुजंति थीपसंगं ववहारं गंथसंग्रहं भूसं । एगागित्तव्भमणं सच्छंदं चेट्ठियं वयणं ॥ २ ॥ चेयमढाइवासं वसहीसु निञ्चमेव संठाणं । गेयं नियचरणाणं चावणमिह कणयकुसुमेहिं ॥ ३ ॥ तिविहं तिविणेयं मिच्छत्तं जेहिं वज्जियं दूरा । निच्छयओ ते सड्डा अन्ने पुण नामओ चेव ॥ ४॥ एतन्मिथ्यात्वनिर्मुक्तं सम्यक्त्वं भजते हि यः । आसन्न सिद्धिकत्वेन प्रसिद्धोऽसौ मनीषिणाम् ॥ ८३ ॥ श्रुत्वेति देशनां तत्र बुद्धदासः कुटुम्बयुक् । विधूय सर्वमिथ्यात्वं मद्यमांसादि वर्जयन् ॥ ८४ ॥ सम्यक्त्वपूर्विका दम्भात्प्रपद्य द्वादशवतीम् । शिश्राय श्रावकीभावमहो ! मायाविजृम्भितम् ॥ ८५ ॥ ततः शुश्रूषते साधूनर्चति श्रीजिनेश्वरम् । न्यायार्जिता मुनीन्द्रोक्तक्षेत्रेषु वपति श्रियः ॥ ८६ ॥ 1 ***** **** पश्चम प्रस्तावः ॥ १५४ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy