SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी ।। १५३ ।। *********** ****** क्षेत्रे सीतानं भाद्रपदे तु द्वादशीकृतिः । सप्तम्यां वैद्यनाथस्य पूजना कणमार्गणम् ॥ ६३ ॥ फाल्गुने नागपूजा च सोमादित्यतपस्तथा । कार्तिकी नवरात्राच देवजन्माष्टमीमहः ॥ ६४ ॥ हेमरूप्याद्यलङ्कारदेवतानां च सत्कृतिः । स्वर्नदीगोमतीवार्धिमाघस्नानादिका क्रिया ॥ ६५ ॥ सर्पिः कम्बलदानं च माघमासे द्विजादिषु । मिथ्यादृग्देवतापूजा शरावभरणं सुते ॥ ६६ ॥ कज्जलीदेवतार्चादि श्राद्धं पितृषु तर्पणम् । तिलदर्भप्रदानं च मृतकार्थे जलाञ्जलिः ।। ६७ ।। गोपृष्टे हस्तकादानं रविचन्दनषष्ठिका | विशेषस्नानदानाद्यमुत्तरायनवासरे ॥ ६८ ॥ तृतीया त्वाश्विने मासेहरिस्वापाद्यहस्तपः । एकादशीव्रताघानं गौरीभक्त द्रुमार्चना ॥ ६६ ॥ यात्रा च लौकिके तीर्थे कृत्यं पाण्मासिकादिकम् । पुण्यार्थं च प्रपादानं कन्यापाणिग्रहादि च ॥ ७० ॥ भोजनं तु कुमारीण मृतकार्थं पयोघटाः । पञ्चम्यादौ तिथौ नित्यं गोरसस्याविलोडनम् ॥ ७१ ॥ चैत्रे तु चचरीदानं शण्डवृक्षोद्वहोत्सवः । मण्डकादिप्रदानं च तृतीयायां तु माधवे ॥ ७२ ॥ ज्येष्ठशुक्लत्रयोदश्यां शक्तुकादिप्रदायिका ! अमावास्याममावास्यां जामातुर्भोजनं तथा ॥ ७३ ॥ वायसादेर्बलेर्दानमनन्तव्रतपालनम् । पुण्यार्थं कूपखननं क्षेत्रादौ गोचरोज्झितिः ॥ ७४ ॥ स्नानं धन्यत्रयोदश्यां तथा रूपचतुर्दशी । भाद्रे कृष्णचतुर्दश्यां पवित्रीकरणं पुनः ॥ ७५ ॥ पिष्पलाम्रादिवृक्षाणां रोपणं वारिसिञ्चनम् । विप्रगेहे पयोदानं धर्मार्थं वह्निदीपनम् ॥ ७६ ॥ S ***** ***** पश्चम प्रस्तावः . ॥ १५३ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy