________________
सम्यक्त्व
कौमुदी
॥ १५० ॥
******
अहो ! रूपमहो ! कान्तिनेत्रश्रान्तिहरी नृणाम् । अहो ! सर्वाङ्गसौभाग्यं यूनामुन्मादभेषजम् ॥ पश्यन् कुण्डलिनीं दिव्यरूपां ताममृतश्रवाम् । निर्निमेषदृगम्भोजो जज्ञे योगीव स क्षणम् ॥ एवं पश्यन्नसौ कामव्याधवाणैरताडयत । तथा यथायिनिक्षेपं नासीत् कतु मपि क्षमः ॥ २५ ॥ ततः कथञ्चिन्मित्रेण सम्बोध्य श्रेष्ठिनोऽङ्गजः । मन्मथाशुगविद्धोऽपि बलान्निन्ये निजालये ॥ २६ ॥ कामज्वरज्वलत्कायः पतितस्तल्पपल्वले । मनाग् न हि धृतिं लेभे मीनवत् स जलोज्झितः ॥ २७ ॥ स्वरूपं तस्य निर्णीय जननी कामदेवतः । तत्रागत्यावदत्पुत्रं सम्भ्रमभ्रान्तमानसा ॥ २८ ॥ व्याधिधां दधात्यङ्ग कश्चिद्वत्स ! तवाधुना । उत्तिष्ठ शर्करापानं कुरु भोजनमाचर ॥ २६ ॥ चतुर्जातकसन्मित्रं धेहि वा क्वथितं पयः । अथवा याऽस्ति ते चिन्ता तां जल्पत्वं ममाग्रतः ॥ ३० ॥ मुक्त्वा लज्जाभरं मारविकारविह्वलाशयः । कुमारो मातरं स्माह मुश्च निश्वासपद्धतिम् ॥ ३१ ॥ ऋषभश्रेष्ठिकन्यायाः कराश्लेषाभिषेकतः । मातः ! शान्ति व्रजेदाशु मद्वपुस्तापसन्ततिः ॥ ३२ ॥ तत्स्वरूपं परिज्ञाय जनन्युत्सुकमानसा । पत्ये निवेदयामास बुद्धदासाय वेगतः ॥ ३३ ॥ तत्रागत्य जवात् सोऽपि चिन्ताचन्तिमना मनाग् । तापोपशान्तये पुत्रमपीप्यद्वचनामृतम् ॥ ३४ ॥ वत्स ! स्वच्छाशयो मुग्धधोरणीषु स्थितो धुरि । अशक्ये कुरुषे यस्माद्वस्तुनि त्वं कदाग्रहम् ॥ ३५ ॥ जनङ्गमानिव स्पृष्ट्वा बुद्धधर्मधुरन्धरान् । अस्मान्मांसाशिनो नित्यं यः स्नानमभिवाञ्छति ॥ ३६ ॥
२३ ॥
२४ ॥
**************************
पञ्चमः
प्रस्तावः
।। १५० ।।