________________
सम्यक्त्वकौमुदी
प्रस्ताव:
॥१४॥
गुणगुणवतामाद्यः पुण्यैः पुण्यवतामपि । बलैबलवतां चैव स राजा विश्रुतो भुवि ॥ ९ ॥ राज्ञी पद्मावती तस्य पद्माभा पद्मासौरभा । सौभाग्यसम्पदः सद्म छद्ममुक्तमना अभूत् ॥ १० ॥ तत्रास्तिकगुणग्रामाभिरामो जिनभक्तिमान् । नाम्ना ऋषभदासोऽभूत् श्रेष्ठी सदृष्टिभूषणम् ॥ ११ ॥ सप्तक्षेत्रावनौ वर्षन्नुन्नतो वित्तवारिभिः। प्रीणन् दीनान् यथौचित्यं योऽभूल्लोके घनोदयः॥ १२ ॥ प्रिया प्रियतमा तस्य जज्ञे पद्मावती सती । कुर्वती पुण्यकार्याणि विरराम न या क्वचित् ॥ १३॥ जाग्रद्विवेकविनया पद्मश्रीस्तनया तयोः । पुण्यलावण्यपीयूषदीधिकेवाभवद्भुवि ॥ १४ ॥ तस्या जगन्त्रयस्त्रैणसौन्दय कविजित्वरम् । रूपं निरूप्य नो जज्ञे कस्को विस्मतमानसः ॥ १५ ॥ अथ दारिद्रयदुर्योनिदुःखदावाम्बुदोपमम् । बोधिबीजप्ररोहेककारणं भवतारणम् ॥ १६ ॥ ऋषभश्रेष्ठिनाऽकारि पुरे श्रीजिनमन्दिरम् । मानप्रमाणवर्णाढ्यप्रतिमाभिरलङ्कृतम् ॥ १७ ॥ युग्मम् ॥ पद्मश्रीदेवपूजाय प्रत्यहं तत्र गच्छति । दिव्याभरणभूषाभिः सखीभिः परिवारिता ॥१८॥ बुद्धसङ्घधुरीणोऽथ बुद्धदासः स्फुरद्यशाः। महेभ्यः समभृत्तत्र बुद्धदासी च तत्प्रिया ॥ १६ ॥ बुद्धसङ्घस्तयोः पुत्रः पात्रं सुत्रामसम्पदः । नवीनयौवनारम्भसम्भारमदमन्थरः ॥ २० ॥ सुहृदा कामदेवेन कामदेवोऽङ्गमानिव । अन्वितस्तत्र स प्रापदन्यदा जिनमन्दिरे ॥ २१ ॥ दृष्ट्वा पद्मश्रियं तत्र पद्मसुन्दरलोचनाम् । जिनेन्द्रपूजानिष्णातां कुमारोऽसौ विमृष्टवान् ॥ २२ ॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१४६॥