SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी पञ्चमः प्रस्ताव: ॥१४८॥ XXXXXXXXXXXXXXXXXXX श्रुत्वा कथानकमिदं नरनाथपुच्याः श्रोत्रैकपेयमवनीपतिपुङ्गवोऽपि । हर्षप्रकर्षमकरोत् सचिवेन सार्धं जानन जिनाधिपमतं भुवनातिशायि ॥ १०१॥ इति सम्यक्त्वकौमुद्यां श्रीतपागच्छनायकश्रीसोमसुन्दरसूरिश्रीमुनिसुन्दरसूरिश्रीजयचन्द्रसूरिशिष्यैः पण्डितजिनहर्षगणिभिः कृतायां चतुर्थः प्रस्तावः ॥ ग्रन्थानम् ६७५ ॥ ॥ अथ पञ्चमः प्रस्तावः॥ अथ भक्त्या विनिर्माय प्रतिमानां जगद्गुरोः । कपूरागुरुकस्तूरीधूपपूजा विशेषतः ॥ १ ॥ श्रेष्ठी पद्मलतां प्रोचे त्वं कथा कथय प्रिये ! श्रुत्वा सम्यक्त्वसौभाग्यं यथाऽहं प्रीतिमावहे ॥ २ ॥ युग्मम् ।। निदेशं स्वामिनो लब्ध्वा सुधामाधुर्यजित्वरम् । हेतु सद्दर्शनोत्पत्तौ पुनः पद्मलताऽलपत् ॥ ३ ॥ अङ्गोऽनङ्गोपमानेकलोककेलिनिकेतनम् । विषयः सुखसंपन्नो वर्ततेऽवनिमण्डनम् ॥ ४॥ चम्पा कम्पावहा नाकसम्पदः स्वकसम्पदा । आसीत् सीदजनाधाररूपा तत्र महापुरी ॥ ५ ॥ तस्याः सौभाग्यसम्भारं कोऽपि वक्तुं क्षमो भवेत । जज्ञे यस्याः पतिः पूर्व वासुपूज्यो जगद्गुरुः ॥ ६ ॥ भोगावती कथं तस्याः श्रयेत्साम्यं मनागपि । सुभद्राशीलकपूरवासिता याऽधुनाऽप्यहो । ॥ ७॥ नरवाहनतुल्यश्रीस्तत्रासीन्नरवाहनः । गरुन्मद्वाहनोजस्वी भूपतिभू रिवाहनः ॥ ८॥ 1॥१४८॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy