SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ।। १४५ ।। ****** इत्युक्त्वा मन्त्रिणं राजा युत्सामग्रीमकारयत् । विपरीते विधौ प्राणी मन्यते किं हितं वचः १ ॥ ६२ ॥ ततस्तयोर्महीजान्योरन्योन्यं सैन्ययोर्द्वयोः । सङ्ग्रामः समभूद्भूना विश्वविश्वभयङ्करः ॥ ६३ ॥ दवानिनेव सैन्येन भगदत्तन रेशितुः । प्रसर्पता बलं भग्नं द्राग् जितारेः पलायत ॥ ६४ ॥ दृष्ट्वा नष्टं बलं सर्व दिवानन्तत्रवृन्दवत् । ननाश काकवत्कम्पमानो वाराणसीनृपः ।। ६५ ।। सारी भगदत्तेन गतनाव कामिनी । कदर्थ्यमाना चक्रन्द सर्वतः करुणस्वरम् ॥ ६६ ॥ नरेन्द्रसुन्दरीवर्गश्चुक्षुभे भयविह्वलः । रत्नमाणिक्यवस्तूनि जगृहुस्तस्करास्तथा ॥ ६७ ॥ मुण्डितथ परिज्ञाय स्वपितुश्चेष्टितं तदा । दुःखसंभारसंतप्ता निर्विन्ना जीवितादपि ॥ ६८ ॥ नमस्कृत्य जिनेन्द्राणां प्रतिमा भूरिभावतः । स्मृत्वा च स्वगुरोः पादौ दृढमम्यक्त्ववासिता ॥ ६६ ॥ प्रत्याख्यानं च साकारं निर्मायामायमानसा । पपात वेश्मनो वाप्यां संस्मरन्ती नमस्कृतिम् ||७० | | त्रिभिर्विशेषकम् ॥ सम्यग्धर्मानुभावेन तदा तस्या जलोपरि । हैमं सिंहासनं प्रादुरासीत्तत्राद्भुतावहम् ॥ ७१ ॥ निविष्टा तत्र पूर्लोकैः सा सीतेव महासती । ववन्दे नयनानन्ददायिनी देवतान्विता ॥ ७२ ॥ आयसैः कीलिता कीलैः सुरैस्तस्करपूरुषाः । वक्त्रारविन्देरुद्वेमुभ्र मद्गात्राश्च शोणितम् ॥ ७३ ॥ भगदत्तस्तथा प्रेक्ष्य वेपमानत्र पुस्तदा । पत्तिवत्पादयोस्तस्या भालस्पृष्टधरोऽपतत् ॥ ७४ ॥ पुत्रीमाहात्म्यमुद्धुष्टं त्रिदशैर्मुदिताशयैः । श्रुत्वा जितारिभूजानिराययौ तत्र विस्मितः ॥ ७५ ॥ ***** चतुर्थ प्रस्तावः ॥ १४५ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy