SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रस्ताव: ॥१४४॥ EXXXXXXXXXXXXXXXXXXXXXXXXX भगदत्तो दूतवाचा कुपितोऽथ कृतान्तवत् । कृत्वा सझामसामग्री पुरे तत्रागमज्जवात् ॥ ५२ ॥ चतुरङ्गवलाकीर्णो जितारिरपि संमुखः । युद्धकण्डूलदोर्दण्डो मार्तण्ड इव निययौ ॥ ५३ ॥ दिक्चक्राक्रमणकलम्पटतमं कल्पान्तकालानलज्वालामं भगदत्तभूपतिबलं क्षोणीतलाकम्पकृत् । प्रेक्ष्योवाच सुदर्शनाभिधमहामात्यो जितारिप्रभु न्यायोपायविदग्रणीनिजगणश्रेयःश्रियं चिन्तयन् ॥ ५४॥ स्वामिन् । निजाङ्गजां दत्वा भगदत्ताय भूभुजे । सन्धिविधीयते येन दुर्जयः प्रतिभात्ययम् ॥ ५५ ॥ राजनीतेरिमे प्राणा यदलाबलनिर्णयः। सन्धिविग्रहवेलायाः परिज्ञानं च निस्तुषम् ॥ ५६ ॥ सामं नैव मन्यन्ते सर्वानर्थनिकेतनम् । नीतिशास्त्रविदः साधं भूभुजाऽतिबलीयसा ॥ ५७ ॥ यतःअनुचितकारम्भः स्वजनविरोधो बलीयसा स्पर्धा । प्रमदाजनविश्वासो मृत्युद्वाराणि चत्वारि ॥१॥ जितारिजितकाशित्वं मन्वानो भुजदर्पभृत । उवाच सचिवं किश्चित्क्रोधौद्धत्यगलन्मतिः ।। ५८ ॥ क्षत्रियाणामिदं मन्त्रिन् ! नित्यं स्वकुललाञ्छनम् । दुराचाराय यत्पुत्री दत्वा राज्यं हि भुज्यते ॥ ५६ ॥ रणोत्सवे समायाते जयश्रीलम्पटा भटाः । जीवितं धृत्कृतप्रख्यं मन्यन्ते क्षत्रियोत्तमाः।। ६० ॥ स्वर्गस्त्रीशरणं मन्त्रि ! मरणं रणसागरे। जयश्रीकारणं वीरवराणां जीवितं तथा ॥ ६१ ॥ यतःजिते च लभ्यते लक्ष्मीमृते चापि सुराङ्गना । क्षणविध्वंसिनीकाया का चिन्ता मरणे रणे ॥१॥ क्षत्रियाः समितेर्नष्टाः क्रिया भ्रष्टा दिजातयः । लिङ्गिनः शीलमुक्ताश्च त्रयोऽमी पापपांशवः ॥२॥ XXXXXXXXXXXXXXXXXXXXXXXXXX ॥१४४॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy