________________
सम्यक्त्वकौमुदी
॥१४२॥
XXXXXXXXXXXXXXXXXXXXXXXXX
अन्येयुः संयतासङ्घ नन्तुं सा नृपसर्गता । तत्कृतोपकृति सम्यग् संस्मरन्ती कृतज्ञहृत् ॥ २६ ॥ वन्दित्वा श्रमणाः सर्वा विधिना मार्गदेशिकाः । विस्मेरवदनाम्भोजा सोवाच वृषभश्रियम् ॥ ३०॥ गतरोगा सुरूपा च बभूव भगवत्यहम् । त्वत्प्रसादेन पीयूषमज्जनेनेव तत्क्षणात् ॥ ३१॥ करिष्ये निरतीचारमतो धर्म यथोचितम् । यस्य लीलायितं वक्तुं देवैरपि न शक्यते ॥ ३२॥ समीहे गौरवं कर्तु परं वः पुण्यकाम्यया । विशुद्धैरनपानाद्यैर्देशकालगृहोचितैः॥ ३३ ॥ जिनपूजां मुनिभक्ति वात्सल्यं सर्वसङ्घलोकस्य । ये कुर्वन्ति गृहस्थास्तेषां सफलं भवति जन्म ॥ ३४॥ वृषभश्रीरुवाचैवं तां भद्रे ! किमिदं महत् । जिनोक्तव्रततो यत्स्याद्रूपनीरोगतादिकम् ॥ ३५ ॥ अमुष्मादपि दुष्प्रापामपि स्वर्गशिवश्रियम् । जनो यल्लभते नूनं शुद्धभावतरङ्गितः ॥ ३६ ॥ यतः
सम्यक्त्वपूर्वाणि जिनोदितानि व्रतानि यः पालयति प्रयत्नात् ।
आसाद्य कैवल्यरमां सृजेत स सिद्धिवध्वाः सततं विलासम् ॥१॥ साऽथ तां सपरीवारां गृहमानीय भक्तितः । शुद्धानपानवस्त्राद्यैः संयतां प्रत्यलाभयत् ॥ ३७॥ ततो धर्मानुभावेन रूपसौन्दर्यसम्पदः । अभूवन विश्रुतास्तस्याः सर्वभूपालवेश्मसु ॥ ३८॥ विशुद्धोभयपक्षाढ्याः सुरूपाः भूपसूनवः । पित्रा विलोकितास्तस्या उद्वाहार्थमनेकशः॥ ३६॥ तादृक्सौभाग्यसम्पत्या वरः कोऽपि वरः परम् । आस्तां समधिकस्तस्या न तुल्यः प्रतिभासते ॥ ४०॥
* ॥१४२॥