________________
सम्यक्त्व
चतुर्थ
कौमुदी
प्रस्ताव
॥१४॥
XXXXXXXXXXXXXXXXXXXXXXXX
स्माह नागश्रियं सोऽथ सम्यक्त्वोत्पत्तिसूचिनीम् । स्वानुभूतां प्रिये ! पुण्या कथां कथय सांप्रतम् ॥१॥ कर्णाञ्जलीभिराचम्य कान्तवाचं सुधामुचम् । उदन्तं मुदितस्वान्ता साऽपि तेषां न्यवेदयत् ॥ २॥ अत्रैव भरतक्षेत्रे वाराणस्यां महापुरि । सोमवंशोऽभवद्राजा जितारिर्जितशात्रवः ॥ ३ ॥ विद्विषां विदुषां यस्य समित्सु सहसादरम् । लक्षदः प्रस्फुरत्पर्वाकरः शर इवाकरोत् ॥ ४ ॥ राज्ञी कनकचित्राऽऽसीत्तस्यासीमगुणस्थितिः । तयोश्च तनया जाग्रद्विनया शीलसुन्दरी ॥५॥ जातवाद्भरिपुत्राणामुपरि स्फाररूपतः । राज्ञो राज्याश्च सा जज्ञे जीवितादपि वल्लभा ॥६॥ परं तु यौवनारम्भे पूर्वकर्मविपाकतः । दाहज्वरशिरोवेगादिकरोगौघपीडिता ॥७॥ सा मुण्डितशिरस्कत्वादःखिता दीनतास्पदम् । मुण्डितेत्यभिधा प्रापदहो! कर्मविचित्रता ॥८॥ युग्मम् ।। मन्त्रतन्त्रौषधश्रेण्या वैद्यवृन्दैरहर्निशम् । चिकित्सिताऽपि नो लेभे सा समाधि कथश्चन ॥ ६ ॥ एकदाऽगाद्गृहे तस्य वृषभश्रीमहासती। विज्ञातसर्व विद्धर्मा संवेगरसदीर्घिका ॥१०॥ मुण्डिता तां नमस्कृत्य कल्याणद्रुमसारिणीम् । निविष्टा पुरतो भूमौ कृताञ्जलिव्यजिज्ञपत् ॥ ११ ॥ स्वामिन्यामयदावाग्निज्वाला मां बाधतेऽधिकम् । तत्प्रसीद ममाऽऽख्याहि भेषजं येन शाम्यति ॥ १२ ॥ स्वामिनि ! त्वं जगज्जन्तुकृपापीयूषदीर्घिका । स्वभावादेव निष्णाता भुवनोपकृतौ यतः ॥ १३ ॥ नानारोगमहावेगविह्वलीभृतमानसा । तेन त्वां प्रार्थये किश्चिदौषधं विश्वजीविनि ! ॥ १४ ॥
KXXXXXXXXXXXXXXXXXXXXXXXX
॥१४॥