SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी ॥१३६।। XXXXXXXXXXXXXXXXXXXXX श्रीसम्यक्त्वमहादीपं मिथ्यात्वतिमिरापहम । औचित्यादिगुणोपेतं प्राणप्रियसुनिश्चलम् ॥ १८८॥ युग्मम् ॥ निशम्य धर्मस्य जिनोदितस्य विष्णश्रियोक्तं परमानुभावम् । विधूतमिथ्यात्वतमाः समं स श्रेष्ठी प्रियाभिमुदितो जगादं ॥ १८६ ॥ प्राणप्रिये ! सत्यमिदं समग्रं त्वयोंदितं श्रीजिनधर्मतत्त्वम् । चिन्तामणौ पाणिगते जनानां न स्यादभीष्टं किमपि प्रकृष्टम् ? ॥ १६ ॥ असत्यमेतन्निःशेषमाचष्टे स्म प्रियाष्टमी । विश्वासं धूर्तवाक्येषु कः करोति यथा तथा ॥ १६१॥ मुधा प्रकल्प्य शास्त्राणि पुराणादीन्यनेकशः । पिण्डदानादिपुण्यानि निर्मितानि कुबुद्धिभिः ॥ १२ ॥ राजादयस्तदाकर्ण्य विमृशन्ति स्म विस्मिताः । अभव्या दूरभव्या वा नूनमेषा नितम्बिनी ॥ १६३॥ नाकिनां सम्पदो भूपश्रियश्च सुलभा इह । जिनेन्द्रधर्मतत्त्वस्य श्रद्धानं दुर्लभं परम् ॥ १६४ ॥ यथा ज्वरातदेहानां रुचिरन्नेषु नो भवेत् । तथा मोहविमूढानां सम्यग्धर्मरुचिः पुनः ॥ १६५॥ यथा रोगभरे क्षीणे रुचिर्भोज्येषु जायते । तथा भावमले क्षीणे तत्वार्थेषु रुचिः स्मृतः ।। १६६ ॥ . .. कर्णोत्पलीकृत्य महानुभावं कथानकं धीसखपुङ्गवस्य । .. सम्यक्त्वतत्त्वप्रवरे जिनेन्द्रधर्म कुरुध्वं सुदृढं मनः स्वम् ॥ १७ ॥ ॥ इति चतुर्थी भावना ॥ PEXXXXXXXXXXXXXXXXXXXXXXXXX ॥१३॥ २.
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy