SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१३८॥ ***** मन्त्र्यादिभिः समं सान्तःपुरः संवेगपूरितः । अष्टाहिकोत्सवं कृत्वा शिश्रिये संयम श्रियम् ॥ १७६ ॥ भोभद्र ! भद्रकोटीभिदुर्लभं शिवसाधकम् । चारित्ररत्नमासाद्य कथञ्चिद्भाग्ययोगतः ॥ १७७ ॥ प्रमादो नोचितः कतु क्रियाकाण्डेषु कर्हिचित् । प्रमाद्यन् पूर्ववित्साधुनिंगोदेष्वपि गच्छति ॥ १७८ ॥ युग्मम् ॥ अनन्तशोऽपि सम्प्राप्तं द्रव्यचारित्रमङ्गिना । भावलिङ्ग' विना नासीत्स्वार्थप्राप्तिर्भुवा परम् ॥ १७६ ॥ शिक्षयैवं गुरोः साधुधर्ममाराध्य निस्तुषम् । आसाद्य केवलज्ञानं मुक्तिमीयुर्नृ पादयः ॥ १८० ॥ केचित् सुश्रावकाचारं सत्सम्यक्त्वमशिश्रियन् । अपरे भद्रकीभावं भेजुस्तद्गुणरञ्जिताः ॥ १८१ ॥ माहात्म्यं तत्रैव गुरुसन्निधौ । मयाऽप्यङ्गीकृतं नेतः ! सम्यक्त्वं शिवशर्मदम् ॥ १८२ ॥ आदिदेश मुनिस्वामी कृपारसमहार्णवः । मामुद्दिश्य ततः सम्यग्दर्शन स्थिरताकृते ॥ १८३॥ तुस्तपः श्रुतादीनां बीजं ज्ञानचरित्रयोः । सम्यक्त्वं प्राप्यते पुण्याद्भव्यैरेव शरीरिभिः ॥ १८४ ॥ यतः - हि चरणज्ञानवियुक्तमपि दर्शनम् । न पुनर्ज्ञानचारित्रे मिथ्यात्वविषदूषिते ॥ १ ॥ ज्ञानचारित्रहीनोऽपि श्रूयते श्रेणिकः किल । सम्यग्दर्शनमाहात्म्याचीर्थकृत्वं प्रपत्स्यते ॥ १८५ ॥ अधृतचरणबोधाः प्राणिनो यत्प्रभावादसमसुखनिधानं मोक्षमासादयन्ति । भव जलनिधिपतं कर्मकान्तारदावं श्रयंत तदिह सम्यग्दर्शनं रत्नमेकम् ॥ १८६ ॥ इति शिक्षासुधां पीत्वा गुरुवक्त्रेन्दुनिर्गताम् । अप्यहं स्वमनः सौधे दधौ सत्तत्त्वदर्शकम् ॥ १८७॥ ************************* चतुर्थ प्रस्तावः ॥१३८॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy