SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ चतुर्थ सम्यक्त्वकौमुदी प्रस्ताव: ॥१३७॥ EXXXXXXXXXXXXXXXXXXXXXXXX एवं निगदतस्तस्य पुष्पवृष्टिरभूद्दिवः । मौलौ मौलिश्रियं दिव्यां कुर्वती सुरनिर्मिता ॥ १६२ ॥ एवं धर्मस्य माहात्म्यं तदालोक्य क्षमापतिः । सभासदां पुरः प्रीतः प्रावादीद जितञ्जयः ॥ १६३ ॥ यथा चिन्तामणिः श्रेष्ठो विश्रुतो मणिमण्डले । तथा धर्मेषु सर्वेषु धर्मः सर्वज्ञदेशितः ॥ १६४॥ ईदृग् लीलायितं यस्य पारे वाग्वर्तिवैभवम् । तस्मादुर्गतिरक्षायै नान्यो धर्मोऽस्ति मे मतिः ॥ १६५ ॥ सम्यग्दृष्टिसुरश्रेणिरश्लाघिष्ट नभःस्थिता । मन्त्रिनिश्चयमाहात्म्यं नृपादेः संशयच्छिदे ॥ १६६ ॥ प्रायो धर्मार्थिनः सर्वे सन्त्यमी देहिनः परम् । सम्पग्धमस्वरूपं च न बुध्यन्ते गुरु विना ॥ १६७ ॥ रोहद्वयामोहभूच्छाये संसारावटकोटरे । पतता जीवजातानां गुरुरेव प्रदीपति ।। १६८॥ अत्रान्तरे समायासीद्भव्यकैरवचन्द्रमाः । जिनचन्द्रगुरुः श्रीमान तन्वन्नमृतसम्पदम् ॥ १६६ ।। श्रुत्वा तदागमं भूमान् सचिवादिपुरस्कृतः । जिज्ञासुराहतं धर्म जगाम गुरुसन्निधौ ॥ १७० ।। आननाम गुरोः पादौ मन्त्र्युक्तविधिना नपः । न विस्मरन्ति सदशा यथार्ह विनयस्थितेः ॥ १७१ ॥ ततोऽभ्यधाद्धराधीशो मुनीन्द्रं रचिताञ्जलिः । स्वर्गापवर्गदं धर्मतत्त्वमाख्याहि मे विभो ! ॥ १७२ ।। गुरुः स्माह निराकारः साकारश्च जिनोदितः । धर्मः शर्मश्रियां कोशः सम्यग्दर्शनपूर्वकः ॥ १७३ ॥ आद्यः साधुषु विश्रान्तः शाश्वातानन्ददायकः । द्वितीयः स्वगसौख्यादिदाता तु गृहमेधिषु ॥ १७४ ॥ इत्याकये गुरोर्वाणीं विरक्तः पृथिवीपतिः । न्यस्य राज्यं सुते ज्येष्ठे श्रेष्ठे शत्रुञ्जयाह्वये ॥१७५ ॥ RXXXXXXXXXXXXXXXXXXXXXXXX ॥१३७॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy