________________
सम्यक्त्वकौमुदी
॥१३६॥
XXXXXXXXXXXXXXXXXXXXXX
एवं चिन्तयतस्तस्य कोशादाकर्ण्य भूपतिः । मण्डलाग्रं हठाद्यावदवैक्षिष्ट समत्सरः॥ १५२ ॥ तावदिव्यानुभावेन भानुवद्भासुरद्युतिः । दिद्युते चन्द्रहासस्य सम्पदं स विडम्बयन् ॥ १५३ ॥ विस्मयाम्बुधिनिमग्नो दृष्टा तं तादृशप्रभम् । राजा कर्णजपं कोपादजल्पत् श्यामलाननम् ॥ १५४॥ असिधेनुरियं पापिन् ! देवधेनुरिवाद्भुता । स्पन्दमानपयाः कूटं कथमेवमचीकथः॥१५५ ॥ राजानं स्माह सोत्साहस्तदानीं शेमुषीसखः । दोषो नास्त्यस्य राजेन्द्र ! वदतस्तव सूनतम् ॥१५६ ॥ असावसिलता दारुमय्येवास्ति यतः परम् । शिश्राय लोहतां सम्यग् जिनधर्मानुभावतः ॥ १५७ ॥ यतः
पीयूषन्ति विषोर्मयो विषधरा हारन्ति वारांनिधिधत्तेगोष्पदसम्पदं प्रतिपदं शीतीभवन्त्यग्नयः। भूपालाः कलयन्ति सोदरपदं मित्रन्ति वा शत्रवः
सर्वज्ञोदितधर्मकर्मनियमस्थैर्येण देहस्पृशाम् ॥१॥ स्वामिन् ! संयमिनां पार्वे लोहास्त्रनियमो मया । अग्राहि दुरभिप्रायानुत्पादाय निजे हृदि ॥ १५८ ॥ यद्येन गृह्यते यादृग् व्रतं सद्गुरुसन्निधौ । तत्तादृग्रक्षतस्तस्य भवेत्सौख्यमखण्डितम् ॥ १५६ ॥ राजन्ननर्थदण्डस्तु लक्ष्मणस्येव देहिनः । जायते जन्तुहिंसादिः शस्त्रे पाणौ गते सति ॥१६० ॥ ततो दयालुना शस्त्रं नैव धार्य स्वदेहगम् । पालको धर्म एवास्ति प्राचीनभवसञ्चितः ॥ १६१॥
॥१३६॥