SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्व कौमुदी ॥१३१॥ ******* ********* आस्वाद्य नृपतेर्वाचं मधुपाकानुकारिणीम् । विश्वभूतिरुवाचैवं शुचिः सर्वज्ञधर्मवित् ॥ ६४ ॥ पात्रापात्र विचारोऽयमगाधो वाधिवद्विभो ।। तथाऽपि शृणु संक्षेपात्तत्त्वमार्गानुसारतः ॥ ६५ ॥ पात्रं चारित्रिणः प्रोक्ता मुक्तारम्भपरिग्रहाः । तपः शीलदयावन्तः प्रकृष्टं परमर्षिभिः ॥ ६६ ॥ सत्यशौच दयानिष्ठा द्वादशव्रतधारिणः । पात्रं सम्यक्त्वसंयुक्ता मध्यमं गृहिणः स्मृताः ॥ ६७ ॥ चतुर्थ गुणस्थानस्थितास्तच स्पृहालवः । श्रयन्ति तेऽपि पात्रत्वं जघन्यत्वेन देहिनः ॥ ६८ ॥ आर्ता दीनाश्च हीनाङ्गा दुःखिता ये क्षुधादिभिः । तेऽपि सत्कृपया दानयोग्याः स्युः सर्वदा सताम् ॥ ६६ ॥ एषु शक्त्यनुसारेण ददद्दानं गृहव्रती । तपःशीलविमुक्तोऽपि संसारार्णवमुत्तरेत् ॥ १०० ॥ यतःनो शीलं परिशीलयन्ति गृहिणस्तप्त तपो न क्षमा आर्तध्याननिराकृतोज्ज्वलधियां येषां न सद्भावना | इत्येवं निपुणेन हन्त ! मनसा सम्यग् मया निश्चितं नोत्तारो भवकूपतोऽस्ति गृहिणां दानावलम्बात्परः ॥ १ ॥ तानि पुण्याय कल्पन्ते वस्तूनि नरपुङ्गव । यानि दत्तानि जायन्ते धर्मोपष्टम्भहेतवे ॥ १०१ दत्तेन येन जन्तूनां क्लेशश्चेतसि जायते । आरम्भो वर्धते पश्चात्तद्दत्तं नैव शस्यते ॥ १०२ ॥ निःशेषेष्वपि दानेषु विशेषात्सार्वभौमति । अन्नदानं महीनाथ ! तत्कालानन्ददानतः ॥ १०३ ॥ ****** *************** चतुर्थ प्रस्ताव: ॥१३१॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy