SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी ॥१३०॥ XXXXXXXXXXXXXXXXXXXXXXXXXX आनन्दाणि रोमाञ्चो बहुमानं प्रियं वचः । किं चानुमोदनापात्रदानभूषणपश्चकम् ॥ १॥ ततो गन्धोदकं तस्य ववर्ष स्तत्क्षणे सुराः । शीर्षे कल्पद्रुपुष्पाणि रत्नानि च गृहाङ्गणे ॥ ८१ ॥ तदासनमखाचार्यास्तदाश्चर्येण विस्मिताः। प्रोचुरेवं महीजानि तत्रायातं प्रमोदतः ॥८॥ माहात्म्यं यज्ञमन्त्राणां महीन्द्र ! विष्टपाद्भुतम् । प्रत्यक्षं यदियं जाता रत्नवृष्टिः पदे पदे ।। ८३॥ नृपतिः सत्यमेवेदमवादीन्मुदितो द्विजान् । मिथ्यात्वमोहितः प्राणी किंवा वेत्ति यथास्थितिम् १ ॥ ८४॥ लोभक्षोभवशाद्विप्रा यावद्रत्नानि गृह्णते । श्रयन्ति वृश्चिकीभावं तावत्तानि भयङ्करम् ।। ८५ ॥ तैर्दष्टा ब्राह्मणाः केचित करेषु चरणेषु च । रङ्कवत्कुर्वते सर्वे पूत्कागन करुणस्वरम् ॥ ८६ ॥ विविधौषधयस्तेषां विषवेगातचेतसाम् । वेदोक्तमन्त्रयन्त्राश्च तत्रासंबायका न हि ॥ ८७॥ वाणी दैव्यायिनी तस्मिन्नन्तरिक्षात् क्षणेऽभवत् । नेदं यज्ञफलं वेदमन्त्राणां महिमाऽपि न ॥ ८८॥ किं तु सत्पात्रदानस्य विश्वभूतिद्विजन्मना । विधिना निर्मितस्यासीदत्रैव फलमद्भुतम् ॥ ८ ॥ एतानि दिव्यरत्नानि यत्नादुद्वाह्य मुद्धभिः। मध्ये गेहं विमुञ्चध्वमाहतस्यास्य वेगतः ॥१०॥ प्रणम्याथ पदौ भक्त्या पात्रापात्रविचारणाम् । पृच्छध्वं निभृतीभूय यदि वः कुशलस्पृहा ॥ ११ ॥ श्रुत्वा देवं वचो यावत्ते तथा कतु मुद्यताः । वृश्चिका रत्नतां भेजस्तावत्क्षीणा च तद्वयथा ॥ १२ ॥ अथाकार्य विचारमं विश्वभूति पतिभुवः । पृच्छति स्म नमस्कृत्य दानभेदफलादिकम् ।। ६३ ॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy