SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी चतुर्थ प्रस्ताव: ॥१२८॥ EXXXXXXXXXXXXXXXXXXXXXXX अन्तःसभं भणत्येष द्विजाः प्रीणन्ति पूर्वजान् । द्विजैश्च धार्यते लोको द्विजांस्तत्पूजयेद्बुधः ॥ ६३ ॥ यतःगोभिर्विप्रैश्च वेदैश्च सतीभिः सत्यवादिभिः। अलुब्धैर्दानशीलैश्च सप्तभिर्धार्यते जगत् ॥१॥ परं न वेद मिथ्यात्वविमूढात्मा महीपतिः। ते विप्राः कीदृशाचाराः किं स्वरूपाच विश्रताः॥६४॥ जितेन्द्रियाः कृशारम्भा भजन्तो गहमेधिनाम् । पात्रन्ति ब्राह्मणा लोके सत्यशीलदयान्विताः ॥ ६५ ॥ यतः ये तपस्यन्ति विद्वांसः सत्यशौचजितेन्द्रियाः। तानहं ब्राह्मणान् मन्ये शेषान् शूद्रान् युधिष्ठिर ! ॥१॥ क्षमा दया दमो ध्यानं सत्यं शीलं धृतिघृणा। विद्या विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥२॥ शूद्रोऽपि शोलसंपन्नो गुणवान् ब्राह्मणो भवेत् ।। ब्राह्मणोऽपि क्रियाहीनः शूद्रापत्यसमो भवेत् ॥ ३॥ ये शान्तदान्ताः श्रतिपूर्णकर्णा जितेन्द्रियाः प्राणिवधे निवत्ताः। परिग्रहे संकुचिता गृहस्थास्ते ब्राह्मणास्तारयितु समर्थाः ॥ ४॥ भूभुजा कतु मारेभे यज्ञः पुण्यप्रसूतये । अन्येयुः स्वर्गकामेन स्वर्णकोटिव्ययार्थिना ॥ ६६ ॥ तदाहृताः समाजग्मुर्नानाजनपदोद्भवाः । वेदविद्याविदो विप्राः स्मार्ताः पौराणिकास्तथा ।। ६७॥ KEKXXXXXXXXXXXXXXXXXXXXXXX ॥१२८॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy