________________
सम्यक्त्वकौमुदी
चतुर्थ प्रस्तावः
॥१२६॥
EXXXXXXXXXXXXXXXXXXXXXXXX
भुज्यमानमपि प्रायः फलं नैव दयोद्भवम् । क्षीयते भवकोट्याऽपि कदाऽप्यक्षीणकोशवत् ॥४३॥ यन्मजतां भवाम्भोधौ यानपात्रति देहिनाम् । तत्पात्रं विदुषां ख्यातं सत्क्रियाज्ञानमण्डितम् ॥ ४४ ॥ यतः
ज्ञानं क्रियाच इयमस्ति यत्र तत्कीर्तितं केवलिभिः सुपात्रम् ।
श्रद्धाप्रकर्षप्रसरेण दानं तस्मै प्रदत्तं खलु मोक्षदायि ॥१॥ चतुर्विधोऽपि श्रीसङ्घः पात्रं सामान्यतः स्मृतम् । तत्तद्गुणानुसारेण सत्पुण्यैकफलावहम् ॥ ४५ ॥ यतःउत्तमपत्तं साहू मज्झिमपत्तं च सावया भणिया। अविरयसम्मद्दिट्ठी जहन्नपत्तं मुणे यव्वं ॥१॥
रुचिरकनकधाराः प्राङ्गणे तस्य पेतुः, प्रवरमणिनिधानं तद्गृहान्तःप्रविष्टम् ।
त्रिदशतरुलतानामुद्गमस्तस्य गेहे, भवनमिह सहर्ष यस्य पस्पर्श सङ्घः ॥ ४६॥ पवित्रान् ज्ञानचारित्रतपोभिभु वनाद्भुतैः । पात्रं मुनीश्वरान् प्राहुस्तत्त्वज्ञास्तु विशेषतः ॥ ४७ ॥ विशुद्धं दीयते भक्त्या यदाहाराम्बरादिकम् । तृतीयं पात्रदानं तद्धोपष्टम्भदायकम् ॥ ४॥ सम्यक्त्वं ब्रह्मचर्य वा गुणो मार्गानुगोऽथवा । अन्योऽपि दृश्यते यत्र पात्रतां तदपि श्रयेत् ॥ ४६॥ दानं मोक्षार्थिना देयं कल्पनीयस्य वस्तुनः । श्रद्धादरादियुक्तेन मुनये ब्रह्मशालिने ॥ ५० ॥ अणुव्रतभृतां भक्त्या वात्सल्यं यद्विधीयते । स्वसम्पत्त्यनुसारेण तदपि श्रेयसां पदम् ॥ ५१ ॥ रोद्रातध्यानवान्नित्यं सत्यशीलदयोज्झितः। आसक्तः पुत्रदारेषु बह्वारम्भपरिग्रहः॥५२॥
XXXXXXXXXXXXXXXXXXXXXXXXX
॥१२६॥