________________
सम्यक्त्व
कौमुदी
॥ १२४॥
KARKI
२० ॥
चतुर्दशसु पूर्वेषु तथा नवदशादिषु । अधोतिनो महाभागास्तच्छिष्याः सन्ति भूरिशः ॥ १६ ॥ युग्मम् ॥ मूर्तोऽथ श्रेयसां राशिर्मासक्षपणपारणे । साधुः समाधिगुप्ताख्यो राजर्षिर्देशपूर्व वित् ॥ दृष्टिपूतं न्यसन् पादमुर्व्या गुप्ततमेन्द्रियः । भिक्षार्थमाययौ सोमशर्ममन्त्रीश्वरालयम् ॥ २१ ॥ युग्मम् ॥ लघुकर्मतया मन्त्री तत्रायातं मुनीश्वरम् । पात्रेषु परमं पात्रं वीक्ष्योत्थायाब्रवीदिति ॥ २२ ॥ अहो ! अन मग हे वृष्टिद्याभवद्ध्रुवम् । अन्नार्थ यदसौ प्राप्तः पुण्यपात्रं तपोधनः ॥ २३॥ लभ्यते भाग्ययोगेन सत्यशीलदयान्वितम् । पात्रं सङ्गविनिमुक्तं स्वर्गसिद्धिसुखप्रदम् ॥ २४ ॥ प्रमार्ण्य कुन्तलैरड्रिजःपुञ्जं ततो मुनेः । प्रणम्य प्राज्ञ्जलीभूय मन्त्री विज्ञपयत्यदः ॥ २५ ॥ परमान्नं त्रिधा शुद्धं मदर्थं निर्मितं गृहे । मुनेऽद्यानुग्रहं कृत्वा गृहीत्वा कुरु पारणम् ॥ २६ ॥ दृट्वेषणीयमाहारं वासनां मन्त्रिणः पराम् । पात्रं प्रसारयामास साधुस्तत्पुण्यनोदितः ॥ २७ ॥ सचिवोऽपि ददौ तस्मै तत्सिताघृतवा सितम् । धन्योऽहं कृतपुण्योऽहं ब्रुवन् रोमाञ्चभृत्तनुः ॥ २८ ॥ सुपात्रदान सन्तुष्टैः सम्यग्दृष्टिसुरैस्तदा । पञ्चाश्चर्याणि वर्याणि चक्रिरे सचिवोपरि ॥ २६ ॥ मन्त्री चित्रं तदालोक्य चिन्तयामास चेतसि । अहो ! स्वल्पस्य दानस्य फलं तु जगतोऽद्भुतम् ॥ ३० ॥ यानि दानानि कथ्यन्ते वैष्णवे धर्मवर्त्मनि । मया दत्तानि सर्वाणि तानि विप्रेष्यनेकशः ॥ ३१ ॥ नानुभावो मयाऽदर्शि तेषु दानेषु कुत्रचित् । इदानीं मुनिदानस्य लेभेऽत्रैव फलं महत् ।। ३२ ।।
*************************
चतुर्थ
प्रस्तावः
॥ १२४ ॥