________________
सम्यक्त्व
कौमुदी
॥ १२२ ॥
**************************
एवं प्रियानिगदितं द्विजराजकन्यासम्यक्त्वसत्फलमयं विशदं चरित्रम् । श्रुत्वा समं युवतिभिर्जिनदत्तसूनुर्हर्षप्रकर्षमवदद् हृदि रोचमानम् ॥ २६६ ॥ कपोलकल्पितं सर्वमेतत्कुन्दलता पुनः । बभाषेऽनादिमिथ्यात्वपुराणासवमोहिता ॥ २६७ ॥ अश्रद्धानमिदं कीदृग् वर्ततेऽस्या अहो ! हृदि । मिथ्यादृष्टिपुरोगाया इति दध्युन पादयः ॥ २६८ ॥ यतःसन्तमसन्तं दोषं वदन्ति ये धर्मकारिणः पुंसः । प्रत्यक्षं लोकानां ख्याता मिथ्यादृशस्तेऽत्र ॥ १ ॥ सद्दर्शनप्राप्तिनिरूपिणीं कथां निशम्य सम्यग् किल चन्दनश्रियः । समग्रकल्याण सुपर्वपादपे सम्यक्त्वतश्वे दृढयन्तु मानसम् ॥ २६६ ॥ ॥ इति सम्यक्त्वकौमुद्यां तृतीया कथा ॥ ॥ श्रथ चतुर्थ भावना ॥
सोऽथ विष्णुश्रियं स्माह भद्रेऽर्हन्मतकोविदे ! | आत्मानः शुद्धसम्यक्त्वप्राप्तिहेतुं कथां वद ॥ १ ॥ साऽपि स्वदेशं समासाद्य समुन्मनाः । अभ्यधान्निजवृत्तान्तं बोधिबीजनिबन्धनम् ॥ २ ॥ तद्यथा भरतक्षेत्रे पवित्रे तीर्थराजिभिः । वच्छः श्रीवत्सवद्भूमेर्देशोऽस्ति स्वस्तिमञ्जनः ॥ ३ ॥ गावो नद्यः स्त्रियो भृभृद्भवनाङ्गणभूमयः । तस्मिन् शश्वद्विराजन्ते स्तुत्याः पुण्यपयोधराः ॥ ४ ॥
******
*******
चतुर्थ
प्रस्तावः
॥ १२२ ॥