________________
चतथ
सम्यक्त्वकौमुदी
प्रस्तावः
॥१२०॥
तस्यापि तादृशी भक्तिं तन्वती कृत्रिमेतराम् । विशुद्धं नवकोटीभिराहारं सा ददौ मुदा ॥ २७१॥ ज्ञात्वा तस्या मनोभावं तादृशं स मुनिस्तदा । साधुरूपं परित्यज्य देवोऽभूद्भासुरद्युतिः ।। २७२ ।। आदित्य इव दुष्प्रेक्ष्यं परब्रह्मेव दुर्गमम् । किमिदं दृश्यते रूपं सैवं दध्यौ तदा सती ॥ २७३ ॥ नत्वा तां त्रिदशः स्माह प्राञ्जलिर्जनिताद्भुताम् । सोमे ! सोमानने ! धन्या त्वमेवासि जगत्त्रये ।। २७४ ।। यस्यास्ते त्रिदशाधीशः सम्यक्त्वव्रतवर्णनाम् । आद्यकल्पाधिपोऽकार्षीद् हर्षतः सुरपर्षदि ॥ २७५ ॥ अत्रागत्यासहिष्णुस्तां सुरोऽहं रत्नशेखरः । साधुरूपद्वयं कृत्वा परीक्षां कृतवांस्ततः ॥ २७६ ॥ सुरेन्द्रः सत्यता नीतो भवत्या सम्प्रतं परम् । निर्विशेष मुनिद्वन्द्वे दधत्या मानसं निजम् ।। २७७ ॥ सप्रभावे गुरौ देवे विधत्ते भक्तिमादृतः। सर्वः कोऽपि जनो नैव सामान्ये गुणवत्यपि ॥ २७॥ त्वया विशेषो न परं दर्शितो मुनिषु ध्रुवम् । सम्यग्दृष्टिषु तेन त्वं साम्प्रतं तिलकायसे ॥ २७६ ।। संघे तित्थयरंमि य सूरीसु रिसीसु गुणमहग्घेसु । जेसि चिय बहुमाणो तेसि चिय दंसणं सुद्धम् ॥ २८० ॥ इत्युक्त्वा शातकुम्भस्य वृष्टिं कृत्वा गृहाङ्गणे सद्भक्त्या तां नमस्कृत्य नाकी नाकं जवाद्ययौ ॥ २८१ ॥ सम्यग्दृष्टिजनैः सोमा श्लाघ्यमाना पदे पदे। श्रियं कृतार्थयामास सप्तक्षेत्रेषु वापतः ॥ २८२॥ अन्यदा कानने तत्र जन्तुजीवातुदर्शनः । आययौ यतिसंयुक्तो जिनचन्द्रमुनीश्वरः ॥ २८३ ॥ तमानन्तुं महीपालः स्वान्तःपुरपरीवृतः । सश्रद्धा गुणपालाद्याः श्रावकाश्च समैयरुः ॥ २८४ ॥
XXXXXXXXXXXXXXXXXXXXXXXX
॥१२०॥