SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी प्रस्ताव: ॥११६॥ XXXXXXXXXXXXXXXXXXXXXXXX सम्यग्दृष्टिसुरश्रेणी तद्गुणप्रीणिता तदा । कल्पमसुमैवृष्टिं सोमोपरि विनिर्ममे ॥ २५७ ॥ बभूव गुणपालोऽपि श्लाघाया आस्पदं पुरे। प्रसादं नृपतेः प्रापद्वचोऽतीतं च तत्क्षणे ॥ २५८ ।। इहैवालोक्य माहात्म्यं जैनधर्मसमुद्भवम् । भद्रभावोऽभवद्रद्रदत्तोऽपि द्विजपुङ्गवः ॥ २५ ॥ श्रेष्ठिनोऽसौ पदाम्भोजं प्रणम्य विनयादथ । प्रपद्य श्रावकीभावं क्षमयामास तां तदा ॥२६॥ स्वप्रियेण समं सोमा श्रेष्ठिना च पुरस्कृता । निजावासे समायासीद्भवत्प्रतिपदोत्सवम् ॥ २६१ ॥ सोमया सह भुञ्जानः कामभोगाननारतम् । अविन्दत महानन्दं योगीव क्षमया द्विजः ॥ २६२ ।। सोमापि गृहधर्मज्ञा सुखदुःखसमस्थितिः । ददती पात्रदानानि षोढाऽऽवश्यकतत्परा ॥ २६३ ।। कारं कारं सदाचारा श्रीजिनेन्द्रमतोन्नतिम् । सम्यग्दृष्टिषु दृष्टान्तं लेभे तत्र पुरेऽखिले ॥ २६४ ॥ युग्मम् ।। अथ तस्या गृहे कश्चित् साधुः श्रुतधराग्रणीः । अनेकलब्धिसंपन्नः प्रभावैर्विश्रुतो भुवि ।। २६५ ॥ अहं प्रथमिकाव्यग्रैनम्यमानः पुरीजनैः । आविर्वभूव भिक्षार्थ मध्याह्न महसांनिधिः ॥ २६६ ॥ युग्मम् ।। सोमया परया भक्त्या स साधुः प्रतिलाभितः । विशुद्धरत्नपानाद्यैः सद्भूताग्रहपूर्वकम् ॥ २६७॥ गृहस्थभाजनस्थानि भोज्यादीनि तु तत्क्षणे । नीतानि स्तोकतां तेन दिव्यया मायया परम् ।। २६८ ॥ तस्मिन्नेव क्षणे प्राप्तो निग्रन्थो नवदीक्षितः। तपस्वी विकृतं रूपं दधत्क्रोधाग्निना ज्वलन् ॥ २६६ ॥ चातुर्यवर्जितो मूढजनानां ही(हे)लनास्पदम् । कलाकलापनिमुक्तो दिनेन्दुरिव निष्प्रभः ॥ २७० ।। XXXXXXXXXXXXXXXXXXXXXXXX ॥११॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy