________________
सम्यक्त्वकौमुदी
************
॥११॥
**************
मया कुसुममालेव कण्ठेऽस्थापि कुतूहलात । ना जाने कारणं तत्र यदियं पतिता भुवि ॥ २४३ ॥ घटमुद्घाट्य तन्माता दर्शयामास पन्नगम् । तदानीं मेदिनीशस्य रुदन्ती करुणस्वरम् ।। २४४ ॥ नपोऽपि पन्नगं वीक्ष्य कालरूपमिवोल्वणम् । बभाषे रोषताम्रास्यो मा वादीरन्यथा वचः॥२४५ ॥ सोमाऽवोचन्महादेव ! घटेऽस्मिन् पुष्पमालिका । मया विलोक्यते सारसौरभ्यभरभारिणी ॥ २४६ ।। यदि सत्यमिदं भद्रे! गृहीत्वा हस्तपङ्कजे । तदाऽसौ दश्यतां मह्यमिति स्माह क्षमापतिः॥ २४७॥ ततः सोमा कराम्भोजे भोगीन्द्रमतिभीषणम् । यावद्दधौ विधूताघसङ्घा धर्मानुभावतः ॥ २४८ ॥ तावत्पश्यन्ति भूपाद्याः पुष्पमाला मनोरमाम् । विस्मिताश्च पुनर्देध्युनूनं किमिदमद्भुतम् १ ॥ २४६ ॥ वसुमित्राऽवदद्देव ! सोमा सत्यं तदा मया । मन्यते यदि जायेत निर्विषा मे तनूद्भवा ।। २५० ॥ श्रीजिनेन्द्राभिधाजापाद्रजःपापापहारकात् । सज्जीचकार वेगात्तां सा क्षितीश्वरशासनात् ॥ २५१ ।। दत्वाऽभयं महीभा पृष्टाऽथ पणवर्णिनी । भद्रे ! कथय सत्यं तद्यदेतद्वतते घटे ।। २५२ ॥ वसुमित्रा ततो भूपमवादीन्मुदितानना । दुरभिप्रायया स्वामिन् ! मयाऽयं विषभृन्महान् ॥ २५३ ।। सोमाया मृत्यवेक्षपि सुतामोहवशात्मना । आत्मपुंसा समानीय रहः कुसुमभाजने ॥ २५४ ॥ युग्मम् ।। परं सोमानुभावेन नागोऽयं पुष्पदामताम् । लेभे सर्वत्र शुद्धानां विषमं हि समं भवेत् ॥ २५५ ॥ पुण्यप्रभावमालोक्य लोकैलों केश्वरादिभिः । वन्दित्वा पूजिता सोमा स्तुतिवाचालिताननैः॥ २५६ ॥
XXXXXXXXXXXXXXXXXXXXXXXX:
॥११८॥