________________
सम्यक्त्व
कौमुदी
॥११७॥
जिनेन्द्रभक्त्या श्रीसङ्घवात्सल्येन गरीयसा । लेमे तीर्थकृतः कर्म सोमयाऽपि हि तत्क्षणे ॥ २३० ॥ अन्येद्युरुद्रदत्ताद्या दयया सपणाङ्गनाः । आहूता भुक्तये गेहे महोदारतया तया ॥ २३१ ॥ यतः -
safed दयां कुर्वन्ति साधवः । न हि संहरते ज्योत्स्नां चन्द्रश्चण्डालवेश्मनि ॥ १ ॥ तामसंस्कृतलावण्यां कृत्वा नेत्रातिथिं तदा । रुद्रदत्तो व्यधात् किंचित्पश्चात्तापं चलन्मनाः ॥ २३२ ॥ कूटप्रयोगतः सोमां वञ्चयित्वा तु कुट्टिनी । अक्षिपत् पन्नगं पुष्पभाजनान्तः कथञ्चन ॥ २३३ ॥ सर्पोऽपि पुष्पमाला भूतस्याः पुण्यानुभावतः । विपदः संपदीभावं भजन्ते हि कृतात्मनाम् ॥ २३४ ॥ भोजनानन्तरं तेषां पुष्पाद्यर्चाचिकीर्षया । अग्रहीत् पाणिना सोमा तां दैवात् पुष्पमालिकाम् || २३५ ।। नर्मल वितन्वाना सा मालां लीलया सती । निचिक्षेप तदा कामलतायाः कण्ठकन्दले ॥ २३६ ॥ तया तत्रस्थया सर्परूपमासाद्य भीषणम् । दष्टा कामलता दुष्टा मूर्छिता न्यपतद्भुवि ॥ २३७ ॥ कुट्टिनी तां तथा दृष्ट्वा मायया कुट्टितोदरा । कृत्वा नागं घटे चक्रे पूत्कृतं नृपतेः पुरः ॥ २३८ ॥ ततो ज्ञातस्वरूपेण भूपेन कुपितात्मना । ऊचे सोमा समाहूय समक्षं निजपर्षदः ॥ २३६ ॥ कुकर्मैवंविधं भद्रे ! कस्माद्विरचितं त्वया । रतया सर्वकार्येषु विषयेषु विरक्तया ॥ २४० ॥
सोमा स्माह महाराज ! प्राणान्तेऽप्यङ्गिपीडनम् । नाहं सर्वज्ञधर्मज्ञा विदधे दुर्गतिप्रदम् || २४१ ।। यो धर्मं वेत्ति मौनीन्द्रं सम्यग्विश्वैकवल्लभम् । सूक्ष्मबादरसत्त्वानां हिंसां नैत्र करोत्यसौ ॥ २४२ ॥
****************
प्रस्तावः
॥११७॥