SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ सम्यक्त्वकौमुदी चतुर्थ प्रस्ताव: ॥११३॥ गीतनृत्यनमस्कारस्तोत्रपाठादिसत्क्रिया । विधातव्याऽर्हतां भावभक्तिहेतोविशेषतः ।। १७८ ॥ द्रव्यभक्तेर्भावभक्तिरनन्तगुणतोऽधिका । तत्वविद्भिः समाख्याता निर्वाणावधि सौख्यदा ।। १७६ ।। सम्यगाराधनादस्य स श्रीमान् मगधाधिपः। श्रेणिकस्तीर्थकृद्भावी पद्मनाभाभिधानवान् ॥ १८०॥ ये पश्चदशधा सिद्धाः सिद्धानन्तचतुष्टयाः।एकत्रिंशद्गुणोपेता लोकाग्रस्थितिशालिनः॥१८१॥ तेषां भक्तिद्वितीये स्यात्तद्धथानप्रतिमार्चनैः । तस्त्वरूपसमावेशात्तन्नमस्कारजापतः ॥ १८२ ॥ तदाकृतिविधानेन तत्तीर्थावनिवन्दनात । सिद्धाचलोज्जयन्तादियात्रिकाचेनतस्तथा ॥ १८३ ॥ भक्तिः स्तोकाऽपि सिद्धेषु गुणगर्भा कृता सती । तीर्थनाथपदं दत्ते नात्र कार्या विचारणा ॥ १८४॥ भक्तिःप्रवचने कार्या तृतीयेऽथ पदे तथा । चतुर्विधोऽपि श्रीसङ्घो ज्ञेयं प्रवचनं बुधैः ।। १८५॥ श्रीसङ्घ वन्दनं कार्य विनयो वासनादिभिः । फलताम्बूलवासोभिः सत्कारश्च विशेषतः ॥ १८६ ॥ यतःफलताम्बूलवासोभिभॊजनैश्चन्दनैः सुमैः । श्रीसङ्घः पूजितो येन तेन प्राप्तं जनुष्फलम् ॥ १॥ जिनेन्द्रानापरो देवो सुसाधो परो गुरुः। न सङ्घादपरं पुण्यं क्षेत्रमस्ति जगत्त्रये ।। १८७।। श्रीसङ्घभक्तिमाहात्म्यं वक्तुं कैश्चिन्न शक्यते। अहंदादिपदप्राप्तिर्यस्या मुख्यफलं स्मृतम् ।। १८८ ॥ चतुर्थे स्थानके सम्यग् गुरोभक्तिर्विधीयते । स एव तु गुरुः ख्यातो यः पश्चाचारपालकः ॥ १८६ ।। एकतो निखिलाधर्मा गुरुभक्तिस्तथैकतः । एकतस्तपसां श्रेणिरेकतः शीलपालनम् ॥ १० ॥ XXXXXXXXXXXXXXXXXXXXXXXXX ॥११३॥
SR No.600296
Book TitleSamyaktva Kaumudi
Original Sutra AuthorN/A
AuthorJinharsh Gani, Vijayjinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year1984
Total Pages220
LanguagePrakrit
ClassificationManuscript
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy